राष्ट्रियकार्यकारी अध्यक्षः जातः तदुत्तरं प्रथमतया पटनां प्राप्नोत् नितिन नबीनः, भव्यस्वागतं मार्ग यात्रा च
पटना, 22 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य जौनपुरनगरे स्थितस्य वीरबहादुरसिंह–पूर्वाञ्चल–विश्वविद्यालयस्य अधीनस्थेषु गाजीपुर–जौनपुरयोः महाविद्यालयेषु अध्ययनरताः विद्यार्थिणः एलएलबी तथा एमएड परीक्षाणां कृते अद्य (सोमवासरे) पर्यन्तं ऑनलाइन–आवेदनं कर्त
राष्ट्रीय कार्यकारी अध्यक्ष बनने के बाद पहली बार पटना पहुंचेंगे नितिन नबीन, भव्य स्वागत और रोड शो की तैयारी


पटना, 22 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य जौनपुरनगरे स्थितस्य वीरबहादुरसिंह–पूर्वाञ्चल–विश्वविद्यालयस्य अधीनस्थेषु गाजीपुर–जौनपुरयोः महाविद्यालयेषु अध्ययनरताः विद्यार्थिणः एलएलबी तथा एमएड परीक्षाणां कृते अद्य (सोमवासरे) पर्यन्तं ऑनलाइन–आवेदनं कर्तुं शक्नुवन्ति। विश्वविद्यालय–प्रशासनद्वारा स्नातक तथा स्नातकोत्तर प्रथम–पाठ्यक्रमस्य परीक्षाकार्यक्रमः अपि प्रकाशितः कृतः अस्ति।

तदनुसारं बीएससी–परीक्षाः ६ जनवरीतः आरभ्यन्ते, एमकॉम–परीक्षाः अपि ६ जनवरीतः, एमए–परीक्षाः ७ जनवरीतः तथा एमएससी–परीक्षाः ८ जनवरीतः आरभ्यन्ते।

अस्मिन् विषये सोमवासरे परीक्षा–नियन्त्रकः डॉ विनोदकुमारसिंहः अवदत् यत् समर्थ–पटलस्य माध्यमेन स्नातक–स्नातकोत्तर प्रथम–सेमेस्टरस्य एलएलबी, एलएलएम, बीएड, एमएड, बीपीएड, बीपीई, बी–लिब, बीएससी–कृषि, एमएससी–कृषि इत्यादीनां पाठ्यक्रमाणां परीक्षा–प्रपत्राणि पूर्यन्ते। एतदर्थं पटलः सक्रियः कृतः अस्ति। एतेषां विषयाणां परीक्षा–प्रपत्राणि सोमवासरपर्यन्तं स्वीकरिष्यन्ते।

प्रथम–चरणे सर्वैः महाविद्यालयैः सम्बन्धित–पाठ्यक्रमाणां, विषयाणां तथा प्रश्नपत्राणां सम्यक् चयनं अद्य मध्यरात्रौ द्वादशवादनपर्यन्तं अनिवार्यतया सम्पन्नं कर्तव्यम्। एतस्य उत्तरदायित्वं महाविद्यालयानामेव अस्ति।

विश्वविद्यालय–प्रशासनेन बीएससी प्रथम–पाठ्यक्रमस्य परीक्षाः ६ जनवरीतः आरम्भयितुं तिथिः निश्चिती कृता अस्ति। एताः सर्वाः परीक्षाः निरन्तररूपेण आयोजिताः भविष्यन्ति, द्वयोः प्रश्नपत्रयोः मध्ये किमपि अन्तरालं न भविष्यति। तथैव स्नातकोत्तर (एमए) पाठ्यक्रमस्य परीक्षाः ७ जनवरीतः आयोजयितुं व्यवस्था कृता अस्ति। एमएससी सेमेस्टरस्य परीक्षाः ८ जनवरीतः आरभ्यन्ते, यस्य कार्यक्रमः विश्वविद्यालय–प्रशासनद्वारा प्रकाशितः अस्ति। एमकॉम पाठ्यक्रमस्य परीक्षाः अपि ६ जनवरीतः आरभ्यन्ते।

एताः सर्वाः परीक्षाः मूलतः दिसम्बरमासे आयोजिताः भवितव्या आसन्, किन्तु समर्थ–पोर्टले पञ्जीकरणस्य अभावात् तदा परीक्षाः आरब्धुं न शक्यन्त स्म। बहुयत्नानन्तरं समर्थ–पटलं पुनः सक्रियं कृतम् अस्ति।

---------------

हिन्दुस्थान समाचार