दीनदयाल-उपाध्यायग्रामीणकौशलयोजनायान्तर्गतं रोजगार-मेला आयोजिता
भागलपुरम्, 23 दिसंबरमासः (हि.स.)। जनपदस्य जगदीशपुर-स्थिते लोकनाथ-उच्च-विद्यालयस्य प्राङ्गणे मङ्गलवासरे दीनदयाल-उपाध्याय-ग्रामीण-कौशल-योजनायाः अन्तर्गतं जीविका-जगदीशपुर-द्वारा रोजगार-मेलायाः सफलः आयोजनः कृतः। मेलायाः मुख्योद्देश्यः ग्रामीणयुवभ्यः र
मेला में मौजूद लोग


भागलपुरम्, 23 दिसंबरमासः (हि.स.)। जनपदस्य जगदीशपुर-स्थिते लोकनाथ-उच्च-विद्यालयस्य प्राङ्गणे मङ्गलवासरे दीनदयाल-उपाध्याय-ग्रामीण-कौशल-योजनायाः अन्तर्गतं जीविका-जगदीशपुर-द्वारा रोजगार-मेलायाः सफलः आयोजनः कृतः।

मेलायाः मुख्योद्देश्यः ग्रामीणयुवभ्यः रोजगार-अवसरान् उपलब्धीकर्तुं तथा तान् कौशल-विकासेन सह संयोजयितुं आसीत्। रोजगार-मेले समग्रतया षोडश प्रतिष्ठित-उद्योग-संस्थाभिः सहभागिता कृताऽभवत्। अत्र युनां उत्साहजनकः सहभागः दृष्टः, यस्मिन् ३४५५ अभ्यर्थिनः पञ्जीकरणं कृतवन्तः, तथा १७३५ अभ्यर्थिनः अग्रिम-चरणाय चयनिताः अभवन्।

तत्पूर्वं मेलायाः उद्घाटनं रोजगार-प्रबन्धक-मुमताज-रहमानी, मुकेश-गुप्ता, प्रवीन-कुमारः तथा शाकिर-आलमः इत्येतैः संयुक्तरूपेण कृतम्।अस्मिन् अवसरे प्रखण्ड-कार्यालय-जगदीशपुरात् रामशोहितः, मणि-किरणः, पूनम-कुमारी, कञ्चन-कुमारी च अन्ये च पदाधिकारीणः कर्मचारीणश्च उपस्थिताः आसन्।

उद्घाटन-कार्यक्रमे वक्तारः संबोधयन्तः अवदन् यत् एतादृशाः रोजगार-मेलाः ग्रामीण-युवान् प्रत्यक्षतया उद्योगैः सह संयोजयितुं एकं सशक्तं माध्यमं भवन्ति। एतेन युवानां भविष्यं दृढं कर्तुं अवसरः प्राप्यते। ते एतदपि अवदन् यत् जीविका-जगदीशपुर-द्वारा भविष्येऽपि एतादृशानां आयोजनानां निरन्तरता भविष्यति, येन अधिकाधिक-युवानां रोजगार-संयोजनं सम्भवेत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता