कृषिः हिमाचलस्य जीवनरेखा, ग्रामीण-अर्थव्यवस्थां दृढ़ीकरोति सर्वकारः - सुक्खू
शिमला, 23 दिसंबरमासः (हि.स.)। उत्तरप्रदेशविधानसभायाः शीतकालीनसत्रस्य तृतीयदिने मङ्गलवासरे एसआईआर् विषयः सदने तीव्रतया चर्चा अभवत्। विपक्षपक्षस्य केचन सदस्याः एसआईआर् प्रक्रियायाः विषये प्रश्नान् उत्थापितवन्तः, अन्ये च तस्मिन् संशोधनस्य आवश्यकता इत
मुख्यमंत्री सुक्खू


शिमला, 23 दिसंबरमासः (हि.स.)।

उत्तरप्रदेशविधानसभायाः शीतकालीनसत्रस्य तृतीयदिने मङ्गलवासरे एसआईआर् विषयः सदने तीव्रतया चर्चा अभवत्। विपक्षपक्षस्य केचन सदस्याः एसआईआर् प्रक्रियायाः विषये प्रश्नान् उत्थापितवन्तः, अन्ये च तस्मिन् संशोधनस्य आवश्यकता इति अवदन्। परन्तु सर्वकारपक्षस्य वक्तव्यं श्रुत्वा नियम ५६ अन्तर्गतं ग्राह्यतायै प्रस्तुतः अयं विषयः पीठेन अग्राह्यः कृतः।

मङ्गलवासरे प्रश्नकालानन्तरं काँग्रेसदलस्य नेत्री आराधनामिश्र मोनामहोदया सदने एसआईआर् विषयम् उत्थापितवती। सा नियम ५६ अन्तर्गतं एसआईआर् विषये चर्चायाः आयोजनं कर्तुं निवेदनं कृतवती। ग्राह्यताविषये उभयपक्षाभ्यां स्वस्वपक्षः प्रस्तूतः।

सर्वकारपक्षं निरूपयन् वित्त-संसदीय-कार्यमन्त्री सुरेशखन्ना महोदयः अवदत् यत् एसआईआर् प्रक्रिया सम्पूर्णतया निर्वाचनायोगस्य नियन्त्रणाधीनैव सम्पन्ना भवति। बीएलओ कर्मिणां मृत्युविषये एतत् अनुसन्धानस्य विषयः अस्ति, केवलं कर्तव्यपालनकारणेन एव मृत्युः अभवत् इति निश्चितं वक्तुं न शक्यते। सरकारस्य संवेदना तेषां परिवाराणां प्रति अस्ति ये स्वजनान् कस्यचिदपि कारणेन गमितवन्तः। एतत् सर्वं अत्यन्तं दुःखदम् अस्ति। अतोऽस्मिन् विषये चर्चा न कर्तुं शक्यते। उभयपक्षयोः वक्तव्यं श्रुत्वा पीठेन अयं विषयः अग्राह्यः कृतः।

आरक्षणस्य विषयः

उत्तरप्रदेशविधानसभायां आरक्षणविषयः अपि उद्भूतः। नियम ५६ अन्तर्गतं ग्राह्यतायै प्रस्तुतस्य आरक्षणे कथितगबनताविषये भाषमाणः वित्त-संसदीय-कार्यमन्त्री सुरेशखन्नामहोदयः अवदत् यत् योगिसर्वकारे आरक्षणनियमानां पूर्णतया पालनं क्रियते, आरक्षणे कापि गबनता नास्ति।

ततः पूर्वं समाजवादीदलस्य वरिष्ठसदस्यः डॉ. संग्रामयादवमहोदयः आरोपं कृतवान् यत् पिछडावर्गीयाः तथा दलितवर्गीयाः शासकीयसेवायां मानकानुसारं आरक्षणलाभं न प्राप्नुवन्ति। सः पशुपालनविभागे सम्पन्नां नियुक्तिं तथा विज्ञापनं च उल्लेखितवान्। समाजवादीदलस्य अन्यः सदस्यः सन्दीपसिंहमहोदयः अपि आरक्षणविषये चर्चायाः निवदेनं कृतवान्। परन्तु सत्तापक्षं विपक्षं च श्रुत्वा पीठेन अयमपि विषयः अग्राह्यः कृतः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता