Enter your Email Address to subscribe to our newsletters

जयपुर, 23 दिसंबर (हि.स.)।भारतीयशिक्षणमण्डलस्य जयपुरप्रान्तस्य तत्वावधानेन राजस्थानविश्वविद्यालयस्य आर. ए. पोद्दार संस्थाने अद्य भारतीयशिक्षणमण्डलस्य वार्षिकपत्रिकायाः ‘रश्मिपथ’ इत्यस्य भव्यं विमोचनं राजस्थानराज्यपालः हरिभाऊ बागड़े महोदयः तथा च भारतीयशिक्षणमण्डलस्य अखिलभारतीयसंगठनमन्त्री बी. आर. शंकरानन्द महोदयः स्वकरकमलाभ्यां सम्पन्नं कृतवन्तौ।
अस्मिन् अवसरें “कृत्रिमबुद्धेः युगे शिक्षायाः परिवर्तमानं परिदृश्यं तथा राष्ट्रनिर्माणे शिक्षणसंस्थानानां भूमिका” इति विषये एका बौद्धिकगोष्ठी अपि आयोजिता अभवत्।
कार्यक्रमं सम्बोधयन् राज्यपालः हरिभाऊ बागड़े महोदयः अवदत् यत् गुरुः शिष्यश्च इति परम्परा भारतीयसंस्कृतेः आत्मा अस्ति, या शताब्द्यः यावत् ज्ञानं संस्कारान् मूल्यानि च सुरक्षितवती। सः अवदत् यत् तन्त्रज्ञानयुगे अपि शिक्षायाः उद्देश्यं केवलं कौशलविकासः न, अपि तु चरित्रनिर्माणम् एव भवितव्यम्। राज्यपालः दरिद्रवञ्चितविद्यार्थिनः आधुनिकतन्त्रज्ञानसहितया गुणवत्तायुक्तशिक्षया संयोजयितुं विशेषं बलं दत्तवान्, तथा च शिक्षकान् प्रति अनुशासनमर्यादायुक्तेन आदर्शाचरणेन समाजस्य मार्गदर्शनं कर्तुम् आह्वानं कृतवान्।
भारतीयशिक्षणमण्डलस्य अखिलभारतीयसंगठनमन्त्री बी. आर. शंकरानन्द महोदयः स्ववक्तव्ये अवदत् यत् कृत्रिमबुद्धिः आध्यात्मिकबुद्ध्या विवेकेन च एव सम्यक् सन्तुलिता नियन्त्रिता च कर्तुं शक्यते। सः अवदत् यत् AI इत्यादृशी तन्त्रविद्या भारताय नवीनं न अस्ति, यतः भारतीयसमाजः परिवर्तनं नवाचारं च आत्मसात् कर्तुं सदैव समर्थः आसीत्, अनेनैव कारणेन सः सनातनः अमृत्युञ्जयश्च अभवत्। सः विवेकसंस्कारमूल्यविकासे बलं दत्त्वा अवदत् यत् विद्यालयस्य वातावरणं गृहवत्, गृहस्य वातावरणं विद्यालयवत् च भवेत्, तदैव AI इत्यस्य सकारात्मकः उपयोगः सम्भविष्यति।
राजस्थानकेन्द्रीयविश्वविद्यालयस्य कुलगुरुः प्रो. आनन्द भालेराव महोदयः कृत्रिमबुद्धेः कार्यप्रणालीं सम्भावनाः शिक्षाक्षेत्रे तस्य प्रभावं च प्रकाशयामास। प्रसिद्धः ज्योतिषाचार्यः डॉ. केदार शर्मा महोदयः हिन्दुसंस्कृतेः षोडशसंस्कारान् वैज्ञानिकान् इति निर्दिश्य तान् अद्यापि पूर्णतया प्रासङ्गिकान् इति अवदत्।
जयपुरप्रान्ताध्यक्षः तथा राजस्थानविश्वविद्यालयस्य कुलगुरुः प्रो. अल्पना कटेजा महोदया भारतीयशिक्षणमण्डलस्य परिचयं दत्त्वा वार्षिकपत्रिकायाः ‘रश्मिपथ’ इत्यस्य उद्देश्यं वैचारिकदृष्टिं च स्पष्टयामास।
कार्यक्रमस्य अन्ते प्रान्तोपाध्यक्षः प्रो. जयदीप जी सर्वेषां प्रति आभारप्रदर्शनं कृतवान्। मंचसञ्चालनं सहप्रान्तमन्त्री डॉ. नीलम पुनार जी कृतवती।
अस्मिन् कार्यक्रमे भारतीयशिक्षणमण्डलस्य राजस्थानक्षेत्रस्य बौद्धिकप्रमुखः डॉ. श्रीकान्तः, अखिलभारतीयप्रचारप्रमुखः संजय पाठकः, राजस्थानक्षेत्रसंयोजकः प्रो. गजेन्द्रपालसिंहः सहिताः अनेके शिक्षाविदः बुद्धिजीविनः शोधार्थिनः विद्यार्थिनश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार