मुख्यमन्त्री डॉ. यादवः पूर्व-प्रधानमन्त्रिणः चौधरीचरणसिंहस्य जयन्त्यां तथा पी.वी. नरसिंहरावस्य पुण्यतिथौ श्रद्धांजलिम् अर्पितवान्
भाेपालम्, 23 दिसंबरमासः (हि.स.)। कृषकाणां प्रेरकः इति प्रख्यातः पूर्व-प्रधानमन्त्री चौधरी चरण्-सिंहः अद्य मङ्गलवासरे जयंती आसीत्। प्रतिवर्षं २३ दिसम्बरतमे दिने पूर्वप्रधानमन्त्री चौधरी चरणसिंहस्य जयंती राष्ट्रियकृषकदिनस्य रूपेण आचर्यते। अस्य उत्सवस
मुख्यमंत्री डॉ. यादव ने पूर्व प्रधानमंत्री चौधरी चरण सिंह की जयंती  र श्रद्धांजलि अर्पित की


मुख्यमंत्री डॉ. यादव ने पीवी नरसिम्हा राव की पुण्यतिथि पर श्रद्धांजलि अर्पित की


भाेपालम्, 23 दिसंबरमासः (हि.स.)। कृषकाणां प्रेरकः इति प्रख्यातः पूर्व-प्रधानमन्त्री चौधरी चरण्-सिंहः अद्य मङ्गलवासरे जयंती आसीत्। प्रतिवर्षं २३ दिसम्बरतमे दिने पूर्वप्रधानमन्त्री चौधरी चरणसिंहस्य जयंती राष्ट्रियकृषकदिनस्य रूपेण आचर्यते। अस्य उत्सवस्य मुख्यः उद्देश्यः कृषकाणां सामाजिक-आर्थिक-विकासे योगदानस्य मान्यता दत्तुं तथा तेषां कल्याणाय जन-जागरूकता प्रसारितुम् अस्ति। तथैव पूर्व-प्रधानमन्त्रिणः पी.वी. नरसिंह-रावस्य अपि अद्य पुण्यतिथिः अस्ति। अस्मिन् अवसतत्र मुख्यमंत्री डॉ. मोहन-यादवः उभयोः महान् हस्तीनां स्मरणं कृत्वा नमनम् अर्पितवान्।

मुख्यमंत्री डॉ. यादवः सामाजिक-माध्यमे ‘एक्स्’ इत्यस्मिान् लेखं लिखितवान् यत् “पूर्व-प्रधानमन्त्री, भारत-रत्नः चौधरी चरण्-सिंहस्य जयंतीं सादरं नमनं, तथा कृषक-दिनस्य हार्दिकम् अभिनन्दनं एवं शुभकामनाः। ते कृषकाणां कल्याणाय तथा कृषि-विकासाय जीवनं समर्पितवन्तः। अन्नदातृणाम् अपि वन्दनं कुर्मः, येषां लग्नम् अथकं च परिश्रमं देशस्य अन्न-भण्डारं समृद्धं कृतम्।”

अन्यसंदेशे अपि मुख्यमंत्री डॉ. यादवः पूर्व-प्रधानमन्त्रिणः पी.वी. नरसिंह-रावस्य पुण्यतिथौ श्रद्धाञ्जलिम् अर्पितवन्तः। ‘एक्स्’ इत्यत्र लिखितवान् यत् “पूर्व-प्रधानमन्त्री, भारत-रत्नः पी.वी. नरसिंह-रावस्य पुण्यतिथौ विनम्रं श्रद्धाञ्जलिम् अर्पयामि। देशस्य विकासाय तथा आर्थिक-सुदृढीकरणाय तव स्मरणं सदा भविष्यति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता