Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 23 दिसम्बरमासः (हि.स.)। डॉ. सर्वपल्ली राधाकृष्णन राजस्थान आयुर्वेदविश्वविद्यालयस्य जोधपुरस्थितस्य कुलगुरोः प्रोफेसर वैद्य गोविन्दसहायशुक्लस्य मार्गदर्शनेन पोस्टग्रेजुएट् इन्स्टिट्यूट् ऑफ् आयुर्वेदस्य स्नातकोत्तरस्त्रीरोगप्रसूति-तन्त्रविभागेन तथा संवर्धिनी न्यासः (नवदिल्ली) इत्येतयोः सहयोगेन आयोजितस्य गर्भसंस्कारविषयकस्य प्रमाणपत्रपाठ्यक्रमस्य समापनं मङ्गलवासरे सम्पन्नम्।
अन्तिमदिने सर्वेषां प्रतिभागिनां प्रायोगिकमूल्याङ्कनं कृतं, यस्मिन् सर्वैः प्रतिभागिभिः उत्कृष्टं प्रदर्शनं कृतम्। तदनन्तरं समापनसमारोहस्य आयोजनम् अभवत्। समापनसत्रस्य मुख्यातिथिः पोस्टग्रेजुएट् इन्स्टिट्यूट् ऑफ् आयुर्वेदस्य शैक्षणिकडीनः डॉ. महेन्द्रकुमारः आसीत्। कार्यक्रमस्य अध्यक्षतां पोस्टग्रेजुएट् इन्स्टिट्यूट् ऑफ् आयुर्वेदस्य प्राचार्यः प्रो. चन्दनसिंहः अकरोत्।
कार्यक्रमे क्रियाशारीरविभागाध्यक्षः तथा माध्यमप्रभारी डॉ. दिनेशचन्द्रशर्मा, संवर्धिनीन्यासस्य डॉ. श्वेता डाङ्गरे, माधुरी सदाशिव मराठे, राज्यसंयोजिका दीपाली सोनी, स्नातकोत्तरस्त्रीरोगप्रसूति-तन्त्रविभागस्य विभागाध्यक्षा, उपप्राचार्या तथा पाठ्यक्रमसमन्वयिका प्रो. डॉ. ए. नीलिमा, पाठ्यक्रमसमन्वयिका डॉ. रश्मि शर्मा, डॉ. आशा के. पी., डॉ. हेमन्तकुमारः, डॉ. दिव्या शर्मा, डॉ. सविता विश्नोई, प्रतिभागिनः तथा स्नातकोत्तरअध्येता उपस्थिताः आसन्।
कार्यक्रमसञ्चालनं डॉ. दिव्या शर्मा तथा डॉ. आशा के. पी. कृतवत्यौ, धन्यवादज्ञापनं च ताभ्यामेव कृतम्।
हिन्दुस्थान समाचार