गङ्गा-तीरे स्थिते भागीरथी-नाम्नि आतिथ्यालये आयोज्यमानः क्रिसमस्-कार्यक्रमः निरस्तः कृतः
हरिद्वारम्, 23 दिसंबरमासः (हि.स.)। हरिद्वारे गङ्गा-तीरे स्थिते भागीरथी-नाम्नि आतिथ्यालये २४ दिसम्बर-दिने आयोज्यः क्रिसमस्-कार्यक्रमः रद्दः कृतः। मङ्गलवासरे आतिथ्यालये-प्रबन्धनं पत्रकारवार्तां कृत्वा कार्यक्रम-निरस्तीकरणस्य घोषणा कृतवद्। विदितं यत्
प्रेस कॉन्फ्रेंस करते होटल  प्रबंधन


हरिद्वारम्, 23 दिसंबरमासः (हि.स.)। हरिद्वारे गङ्गा-तीरे स्थिते भागीरथी-नाम्नि आतिथ्यालये २४ दिसम्बर-दिने आयोज्यः क्रिसमस्-कार्यक्रमः रद्दः कृतः। मङ्गलवासरे आतिथ्यालये-प्रबन्धनं पत्रकारवार्तां कृत्वा कार्यक्रम-निरस्तीकरणस्य घोषणा कृतवद्। विदितं यत् सन्तैः तीर्थ-पुरोहितैश्च गङ्गा-तटे क्रिसमस्-आयोजनस्य विरोधः कृतः आसीत्। आतिथ्यालयसञ्चालनं कुर्वत्या अतिशय-नामक-कम्पन्याः महाप्रबन्धकः नवनीतसिंहः अवदत् यत् कतिपय-संगठनैः आपत्तिः प्रदर्शिता, तदनन्तरं कार्यक्रमः निरस्तः कृतः। अधुना केवलं भव्यगङ्गा-आरतेः आयोजनं भविष्यति। सः स्पष्टीकरणं दत्त्वा अवदत् यत् क्रिसमस्-अवसरे हरिद्वारस्य हिन्दू-संस्कृतेः च विरुद्धं किमपि कार्यक्रम-आयोजनं न क्रियते स्म। केवलं गङ्गा-पूजनम्, आरतिः, बालानां सांस्कृतिक-कार्यक्रमाः च आयोजनीयाः आसन्, तदपि अधुना निरस्तं कृतम्। सः अवदत् यत् आतिथ्यालये आगच्छतां सर्वेषाम् अतिथीनां स्वागतं हिन्दू-रीत्या एव क्रियते। होटले मन्दिरमपि स्थापितम् अस्ति। हिन्दू-मान्यतानुसारमेव आतिथ्यालयस्य सञ्चालनं क्रियते तथा धर्मनगरेः मान-मर्यादानां पूर्णः सम्मानः क्रियते।

हिन्दुस्थान समाचार / अंशु गुप्ता