Enter your Email Address to subscribe to our newsletters

अङ्कीय-युगस्य आव्हानानां निवारणार्थं योगि-सर्वकारः आरक्षकान् तकनीकीरूपेण सशक्तान् करोति।
लखनऊनगरम्, 23 दिसंबरमासः (हि.स.)। अङ्कीय आदानप्रदानस्य तथा अन्तर्जालीय क्रियाकलापानां विस्तीर्णे व्यापारे वर्धमानया साइबर-प्रवञ्चनेन तथा उच्च-प्रौद्योगिकीय अपराधैः सामान्यनागरिकाणां सुरक्षा तथा अङ्कीय विश्वासस्य सुदृढीकरणार्थं योगिसर्वकारः साइबर-अपराधस्य विरुद्धं सशक्तरणनीत्याः अन्तर्गतं निरन्तरं प्रामाणिक-पदानि स्वीकुर्वन् अस्ति। अस्यैव क्रमस्य अन्तर्गतं साइबर-क्राइम-प्रशिक्षण-पटलस्य माध्यमेन अद्यावधि ८४,७०५ आरक्षककर्मिभ्यः प्रमाणितं प्रशिक्षणं प्रदत्तम् अस्ति, येन आरक्षकबलं तकनीकीरूपेण अधिकं सक्षमं कृतम् अस्ति।
विधानसभायां पृष्टस्य प्रश्नस्य लिखितोत्तररूपेण सर्वकारेण साइबर-प्रवञ्चनेन तथा उच्च-प्रौद्योगिकीय अपराधेषु नियन्त्रणार्थं कृतानां प्रयत्नानां विस्तृतं विवरणं प्रदत्तम्। उत्तरमध्ये अवगतं कृतं यत् वर्ष २०१७-तः पूर्वं उत्तरप्रदेशे केवलं द्वौ साइबर-क्राइम-आरक्षककेन्द्रे (लखनऊ-गौतमबुद्धनगरयोः) एव कार्यरतौ आस्ताम्। साइबर-अपराधानां वर्धमानम् आव्हानं दृष्ट्वा योगि-सर्वकारेण चरणबद्धरूपेण साइबर-अपराध-नियन्त्रणस्य ढाञ्चः सुदृढीकृतः। अस्याः प्रक्रियायाः अन्तर्गतं ०६ फेब्रुवरी २०२० तमे दिने १६ परिक्षेत्रीय-साइबर-क्राइम-आरक्षकाणां तथा १४ दिसम्बर २०२३ तमे दिने ५७ जनपदीय-साइबर-क्राइम-आरक्षककेन्द्रानां स्थापना कृता। सहैव प्रदेशस्य सर्वेषु जनपदीय-थानेषु साइबर-सेल इत्यस्य गठनं कृत्वा प्रशिक्षित-आरक्षककर्मिणां नियुक्तिः अपि कृता अस्ति। वर्तमानकाले प्रदेशस्य सर्वेषु जनपदेषु कुलं ७५ साइबर-क्राइम-आरक्षककेन्द्राणि सञ्चालितानि सन्ति, तथा प्रत्येकस्मिन् जनपदीय-आरक्षककेन्द्रे साइबर-सेलः अपि सक्रियः अस्ति।
सर्वकारेण एतदपि अवगतं कृतं यत् साइबर-अपराधात् संरक्षणार्थं अद्यावधि ६५,९६६ सार्वजनिक-स्थानेषु जन-जागरूकता-कार्यक्रमाः आयोजिताः सन्ति। अपरं च, साइबर-अपराधस्य शीघ्र-शिकायतार्थं सहायता-संख्या १९३० इत्यस्य क्षमता २० आसनात् ५० आसनपर्यन्तं वर्धिता अस्ति, या २४×७ निरन्तरं क्रियाशीला अस्ति। सर्वकारस्य मते प्रशिक्षित-आरक्षकबलं, सुदृढं साइबर-आधारभूत-संरचनं तथा व्यापक-जन-जागरूकता-अभियानस्य माध्यमेन प्रदेशे साइबर-अपराधेषु प्रभाविनियन्त्रणस्य दिशायां निरन्तरं प्रगतिः भवति।
हिन्दुस्थान समाचार / Dheeraj Maithani