कज्जाकपुरा ओवरब्रिज इत्यस्य नाम 'बाबा लाट भैरव सेतुरिति नगर निगमस्य अभिलेखे अंकितम्
वाराणसी,23 दिसंबरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरी वाराणसी (काशी) इत्यस्य धार्मिकपरिचयस्य जनआस्थायाश्च सम्मानं कृत्वा नगरनिगमेन कज्जाकपुराक्षेत्रे नवनिर्मितस्य रेल्-ओवरब्रिजस्य नाम ‘बाबा लाट भैरव सेतु’ इति स्थापितम्। ‘बाबा लाट भैरव सेतु’ इ
कज्जाकपुरा ओवरब्रिज


वाराणसी,23 दिसंबरमासः (हि.स.)।

उत्तरप्रदेशस्य धार्मिकनगरी वाराणसी (काशी) इत्यस्य धार्मिकपरिचयस्य जनआस्थायाश्च सम्मानं कृत्वा नगरनिगमेन कज्जाकपुराक्षेत्रे नवनिर्मितस्य रेल्-ओवरब्रिजस्य नाम ‘बाबा लाट भैरव सेतु’ इति स्थापितम्। ‘बाबा लाट भैरव सेतु’ इति नाम नगरनिगमेन स्वीयेषु अभिलेखेषु अपि आधिकारिकरूपेण अंकितम्।

महापौरः अशोककुमारः तिवारी स्पष्टतया अवदत् यत् अधुना एषः नवनिर्मितः सेतुः सर्वेषु आधिकारिकदस्तावेजेषु, नामपट्टिकासु, सार्वजनिकसम्बोधनेषु च ‘बाबा लाट भैरव सेतु’ इति नाम्ना एव ज्ञायिष्यते। तेन उक्तं यत् लाटभैरवक्षेत्रं काश्याः प्राचीनसंस्कृतेः अटूटायाः आस्थायाश्च केन्द्रम् अस्ति। बाबा लाट भैरव प्रति जनमानसे विद्यमानां गभीरां श्रद्धां दृष्ट्वा एव नगरनिगमेन एषः निर्णयः कृतः, येन विकासेन सह अस्माकं विरासताया नाम अपि अक्षुण्णं तिष्ठेत्।

अवगन्तव्यम् यत् अस्य ओवरब्रिज इत्यस्य आधिकारिकनामकरणस्य घोषणा पूर्वमेव कृता आसीत्। गतमे मासे महापौरः अशोककुमारः तिवारी इत्यस्य अध्यक्षतायां आयोजितायां कार्यकारिणीसभायां सर्वसम्मत्या प्रस्तावः पारितः कृत्वा अस्य सेतोः नाम ‘बाबा लाट भैरव सेतु’ इति निश्चितम्। अतः अधुना नगरनिगमस्य सहितं समस्तेषु शासकीयदस्तावेजेषु कज्जाकपुरा ओवरब्रिज इत्यस्य नाम ‘बाबा लाट भैरव सेतु’ इति रूपेण अभिलेखितम् अस्ति।

प्रायः १.३५६ किलोमीटर् दीर्घः अयं सेतुः न केवलं यातायातं सुकरं करोति, अपि तु ‘बाबा लाट भैरव’ इति नाम्ना सम्बद्धत्वात् अस्य क्षेत्रस्य विशिष्टां धार्मिक-सांस्कृतिकां परिचितिं अपि स्थापितवान्।

---------------

हिन्दुस्थान समाचार