Enter your Email Address to subscribe to our newsletters

भोपालम्, 24 दिसंबरमासः (हि.स.)।
भारत रत्न पूर्वप्रधानमन्त्रिणः श्रद्धेयस्य अटलबिहारीवाजपेयिनः जन्मदिवसः पञ्चविंशतितमे दिसम्बरमासे गुरुवासरे सम्पूर्णे प्रदेशे आचर्यते। गुरुवासरे प्रातः एकादशवादने भारतीयजनतापक्षस्य प्रदेशकार्यालये अटल बिहारी वाजपेयी महोदयाय पुष्पाञ्जलिः समर्प्यते। अस्मिन्नेव दिने सायं सप्तवादने मुख्यमन्त्री डा मोहन यादवः भारतीयजनतापक्षस्य प्रदेशाध्यक्षः हेमन्त खण्डेलवालः पक्षस्य प्रदेशप्रभारी डा महेन्द्रसिंहः तथा प्रदेशसंगठन महामन्त्री हितानन्दश्च भारतीयजनतापक्षस्य प्रदेशकार्यालये अटल बिहारी वाजपेयी महोदयस्य कृतित्व व्यक्तित्वयोः आधारितायाः प्रदर्शिन्याः उद्घाटनं करिष्यन्ति।
अतिरिक्ततया पञ्चविंशतितमे दिसम्बरमासे अटल बिहारी वाजपेयी महोदयस्य जन्मदिवसे प्रदेशस्य सर्वेषु बूथेषु तस्मै पुष्पाञ्जलिः अर्प्यते। पक्षस्य सर्वेषु जिलाकार्यालयेषु अटलजीस्य कृतित्व व्यक्तित्वयोः आधारिताः प्रदर्शिन्यः स्थाप्यन्ते। प्रदेशस्य सर्वासु विधानसभासु पञ्चविंशतितमे दिसम्बरमासात् अटल स्मृति सम्मेलनस्य आयोजनं आरभ्यते। जिलाकार्यालयेषु स्थापिता प्रदर्शिन्यः एकत्रिंशत्तमे दिसम्बरमासपर्यन्तं प्रवर्तिष्यन्ते। अटल स्मृति सम्मेलनान्यपि एकत्रिंशत्तमे दिसम्बरमासपर्यन्तं आयोज्यन्ते। एतेन सह रंगोली लेख निबन्ध प्रतियोगिताः तथा अनेकाः उत्सवात्मकाः कार्यक्रमाः अपि पक्षद्वारा आयोज्यन्ते।
एतस्मात् पूर्वं बुधवासरे अटल बिहारी वाजपेयिनो जन्मदिवसस्य अवसरः उपलक्ष्य भारतीयजनतापक्षस्य प्रदेशप्रभारी डा महेन्द्रसिंहः तथा प्रदेशसंगठन महामन्त्री भोपालनगरे शौर्यस्मारकस्य समीपे स्थिते अटलजीस्य प्रतिमास्थले स्वच्छताअभियाने सहभागितां कृतवन्तौ। बुधवासरे सम्पूर्णे प्रदेशे अटलजीस्य प्रतिमास्थलेषु पक्षकार्यकर्तृभिः स्वच्छताअभियानं सञ्चालितम्। तदनन्तरं सायंकाले पक्षस्य प्रदेशकार्यालयं सहितं सर्वाणि जिलाकार्यालयानि प्रकाशेन अलंकृतानि।
--------------
हिन्दुस्थान समाचार