सांसद खेल स्पर्धानां सज्जाम् आधृत्य सांसदः अकरोत् उपवेशनम्
देवरिया, 24 दिसंबरमासः (हि.स.)। जिल्लायां स्थिते स्वर्गीय रविन्द्रकिशोरशाही क्रीडाङ्गणे पञ्चविंशतितमे दिसम्बरमासे आयोज्यमानस्य सांसद क्रीडास्पर्धायाः पूर्वसज्जाविषये सदर सांसदः शशाङ्कमणिः बुधवासरे डाकबङ्गले एकां बैठकाम् अकरोत्। अस्यां बैठके भाजपाय
फोटो


देवरिया, 24 दिसंबरमासः (हि.स.)।

जिल्लायां स्थिते स्वर्गीय रविन्द्रकिशोरशाही क्रीडाङ्गणे पञ्चविंशतितमे दिसम्बरमासे आयोज्यमानस्य सांसद क्रीडास्पर्धायाः पूर्वसज्जाविषये सदर सांसदः शशाङ्कमणिः बुधवासरे डाकबङ्गले एकां बैठकाम् अकरोत्। अस्यां बैठके भाजपाया जिलाध्यक्षः तथा अन्ये जिलास्तरीय पदाधिकारीणः उपस्थिताः आसन्।

उपवेशनं सम्बोधयन् सदर सांसदः शशाङ्कमणिः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनो नेतृत्वे सम्पूर्णे देशे क्रीडायाः क्रीडाकानां च प्रोत्साहनाय सांसद क्रीडास्पर्धायाः आयोजनं क्रियते। गुरुवासरे देवरियानगरस्थिते जिला क्रीडाङ्गणे सांसद क्रीडास्पर्धायाः आयोजनं भविष्यति। अस्या स्पर्धायाः समापनं तस्मिन्नेव दिने भविष्यति तथा विजयी क्रीडकाः पुरस्कृताः भविष्यन्ति।

भाजपा जिलाध्यक्षः भूपेन्द्रसिंहः अवदत् यत् सांसद क्रीडास्पर्धायाः सफलाय आयोजनाय जिलायाः विभिन्नेषु पदेषु नियुक्तानां पदाधिकारीणां दायित्वानि निर्धारितानि सन्ति।

सांसद क्रीडास्पर्धायाः संयोजकः पवनकुमारमिश्रः अवदत् यत् अटलजीस्य शततमे जन्मजयन्त्यवसरे अटल पदयात्रायाः आयोजनं अपि कृतम् अस्ति। एषा पदयात्रा राजकीय इण्टर् कालेज देवरियात् आरभ्य सिविल लाइन्स मार्गेण गत्वा क्रीडाङ्गणं यावत् समाप्यते।

अस्यां गोष्ठ्यां अजयशाही, राजेशमिश्रः, प्रभाकरतिवारी, गङ्गासिंहकुशवाहा, प्रमोदशाही, निर्मलागौतम, भारतीशर्मा, विजेन्द्रचौहानः, राधेश्यामशुक्लः, विजयगौडः, राजनसोनकरश्च उपस्थिताः आसन्।

-------------

हिन्दुस्थान समाचार