Enter your Email Address to subscribe to our newsletters

लखनऊ, 24 दिसंबरमासः (हि.स.)। उत्तरप्रदेश विधानसभा अनिश्चितकालाय स्थगिता अभवत्। उल्लेखनीयं यत् एकोनविंशतितमे दिसम्बरमासे शीतकालीन सत्रस्य आरम्भः अभवत्। विंशतितमे तथा एकविंशतितमे दिसम्बरमासे अवकाशकारणात् सदनस्य कार्यवाही न प्रवृत्ता। द्वाविंशतितमे त्रयोविंशतितमे चतुर्विंशतितमे च दिसम्बरमासे सदनस्य कार्यवाही सम्यक् प्रवृत्ता।
अस्य कालावधौ प्रदेशसरकारा प्रायः चतुर्विंशतिसहस्रकोटिमितं अनुपूरकं वित्तीयराजस्वं प्रस्तुतम् अकरोत्। तत्रैव वन्दे मातरम् इति विषयं प्रति पञ्चघण्टापर्यन्ता विस्तृता चर्चा अभवत्। अस्यां चर्चायां सत्तापक्षस्य विपक्षस्य च सदस्याः प्रमुखतया सहभागं कृतवन्तः।
बुधवासरे दिनपर्यन्तं सदनस्य कार्यवाही सम्पन्ना, ततः अनन्तरं विधानसभा अनिश्चितकालाय स्थगिता अभवत्।
हिन्दुस्थान समाचार