बिहारराज्ये पश्चिमवातेन शैत्यवृद्धिः, राज्ये शीतदिवसस्थितिः प्रवर्तते
पटनानगरम् २४ दिसम्बरमासः (हि.स.)। जम्मू-कश्मीर-, हिमाचलप्रदेश तथा उत्तराखण्डप्रदेशेषु प्रवर्तमानाया हिमवृष्टेः प्रभावः बिहारस्य मैदानीप्रदेशेषु अपि दृश्यते। गतसप्ताहात् राज्ये पश्चिमवातस्य प्रभावात् तीव्रा शैत्यवृद्धिः अनुभूयते। हिमशीतलपश्चिम-वाते
पटना मौसम पूर्वानुमान की फोटो


पटनानगरम् २४ दिसम्बरमासः (हि.स.)। जम्मू-कश्मीर-, हिमाचलप्रदेश तथा उत्तराखण्डप्रदेशेषु प्रवर्तमानाया हिमवृष्टेः प्रभावः बिहारस्य मैदानीप्रदेशेषु अपि दृश्यते। गतसप्ताहात् राज्ये पश्चिमवातस्य प्रभावात् तीव्रा शैत्यवृद्धिः अनुभूयते। हिमशीतलपश्चिम-वातेन राज्ये शीतदिवसस्थितिः सततं वर्तते।

दिवानिशोः समानरूपेण शीतलता अनुभूयते। पतनास्थितस्य मौसमविज्ञानकेन्द्रस्य अनुसारम् आगामि २८ दिसम्बरपर्यन्तं एतादृशः एव मौसमः स्थास्यति। अस्मिन् वर्षे ला-नीना-स्थितेः कारणात् शीतदिवसानां वृद्धेः सम्भावना अस्ति, अतः फेब्रुवारी-मासपर्यन्तं शीत-प्रभावस्य स्थितिः भवितुं शक्यते। बुधवासरे राज्यस्य सर्वेषु जनपदेषु शैत्यदिवस-स्थितिः विद्यमाना, तथा खगड़िया, भागलपुर, मुंगेर, जमुई, बांका इति पञ्चसु जनपदेषु घन-तुषारस्य सचेतना प्रदत्ता। अद्य पञ्चविंशतिः जनपदाः शैत्यदिवस तथा घन-तुषारस्य प्रभावे भविष्यन्ति। द्वादशजनपदेषु नारङ्गसचेतना तथा त्रयोदशजनपदेषु पीतसचेतना घोषितम् अस्ति। २८ दिसम्बरपर्यन्तं घनतुषारः तथा शीतलहरप्रभावस्य पूर्वानुमानः अस्ति।

मङ्गलवासरे पाटलिपुत्रे न्यूनतम-तापमाने १.५ डिग्री-सेल्सियस-परिमाणेन न्यूनता दृष्टा, न्यूनतम-तापमानं ११.० डिग्री-सेल्सियस अभिलेखितम्। प्रदेशे सर्वन्यूनतम-तापमानं गया-नगरे ७.८ डिग्री-सेल्सियस अभवत्। राजधानीपाटलिपुत्रे अधिकतन्यूनतमतापमानयोः मध्ये चतुर्धा-डिग्री-पर्यन्तं अन्तरं दृष्टम्। गयानगरे ५० मीटर्-पर्यन्तं न्यूनतमा दृश्यता अभिलेखिता। मङ्गलवासरे पटनासहितं समीपवर्तिषु क्षेत्रेषु तीव्रा शैत्या अनुभूता।

उल्लेखनीयम् अस्ति यत् १७ दिसम्बरतः २३ दिसम्बरपर्यन्तं बिहारस्य सर्वेषु जनपदेषु अधिकतमतापमाने न्यूनता अभिलेखिता। औसत-न्यूनता प्रायः ५.८ डिग्री-सेन्टीग्रेड् अस्ति। सर्वाधिक-न्यूनता छपरानगरे (–८.७° से.) तथा न्यूनतमा न्यूनता गयानगरे (–२.२° से.) दृष्टा, या शीततरंगप्रभावं स्पष्टं दर्शयति।

हिन्दुस्थान समाचार / अंशु गुप्ता