प्रदूषण नियंत्रणाय निरंतरं प्रभावीपदम् उत्थापयति सर्वकारः : रेखा गुप्ता
नवदिल्ली, 24 दिसंबरमासः (हि.स.)। दिल्ली नगरस्य मुख्यमन्त्री रेखा गुप्ता अवदत् यत् राजधानीनगरस्य वायु प्रदूषणं प्रभावीरीत्या नियन्त्रयितुं दिल्ली सरकारेण तात्कालिकोपायैः सह दीर्घकालीनोपायाः अपि क्रियन्ते। मार्गेषु वायु प्रदूषण नियन्त्रणाय दिल्ली पर
मुख्यमंत्री रेखा गुप्ता (फाइल फोटो)


नवदिल्ली, 24 दिसंबरमासः (हि.स.)।

दिल्ली नगरस्य मुख्यमन्त्री रेखा गुप्ता अवदत् यत् राजधानीनगरस्य वायु प्रदूषणं प्रभावीरीत्या नियन्त्रयितुं दिल्ली सरकारेण तात्कालिकोपायैः सह दीर्घकालीनोपायाः अपि क्रियन्ते। मार्गेषु वायु प्रदूषण नियन्त्रणाय दिल्ली परिवहन निगमस्य अधिशेष चालकाः नियोजिताः सन्ति। ते मार्गेषु कार्यं कुर्वन्ति तथा च पेट्रोल पम्पेषु पीयूसी परीक्षणं अपि कुर्वन्ति।

सर्वकारेण एतदपि महत्त्वपूर्णं निर्णयं कृतं यत् भवनानाम् उपरि एण्टि स्मॉग गन अनिवार्यतायाः स्थाने मिस्ट स्प्रे प्रणाली स्थाप्यते। प्रदूषण परीक्षण निगरानी जालं अधिकं सुदृढं कर्तुं निगरानी केन्द्राणां संख्यापि वर्ध्यते।

मुख्यमन्त्री बुधवासरे अवदत् यत् सा स्वयमेव तथा तस्याः सरकारस्य मन्त्रीगणाः विभिन्नविभागाश्च राजधानी प्रदूषण नियन्त्रणाय निरन्तरं कार्यं कुर्वन्ति। क्षेत्रेषु प्रत्यक्षं कार्यं भवति तदेव न अपि तु विशेष बैठकाः आयोज्य प्रदूषण नियन्त्रण उपायाः गम्भीरतया विचार्यन्ते। तस्याः कथनानुसारं पीयूसी परीक्षणं तीव्रीकृतं क्रियते प्रदूषिताः औद्योगिक एककाः बन्दीकृताः भवन्ति सार्वजनिक परिवहन व्यवस्था सुदृढीकृता भवति तथा च धूलि नियन्त्रणाय सततं प्रयत्नाः चलन्ति। अलाव प्रज्वलनं तथा कोयला काष्ठ दाहनस्य घटनाः अपि शासनद्वारा अधुना नियन्त्रिताः सन्ति।

मुख्यमन्त्री उक्तवती यत् प्रदूषणस्य प्रमुखेषु कारणेषु वाहन उत्सर्जनं मुख्यं कारणम् अस्ति। सेन्टर फार साइन्स एण्ड एन्वायरन्मेण्ट् तथा अन्यैः शासकीयैः शोध आधारितैः स्रोतैः अपि उक्तं यत् यदि वाहन उत्सर्जनं न्यूनं क्रियते तर्हि प्रदूषणं प्रभावीरीत्या नियन्त्रयितुं शक्यते। सा अवदत् यत् प्रदूषित वाहनानां विरुद्धं कार्यवाही भवति एव अपि तु मार्गेषु यातायात जाम निवारणाय अपि सरकार उपायान् कुर्वति।

मुख्यमन्त्री अवदत् यत् सर्वकारेण अस्थायीरूपेण यातायात पुलिसदलाय डीटीसी संस्थायाः षट्शतानि अधिशेष चालकाः दत्ताः सन्ति। ते यातायात पुलिसेन सह मार्गेषु यातायात सञ्चालनं कुर्वन्ति तथा च जाम स्थितेः सामान्यीकरणे सहयोगं ददति। एतदतिरिक्तं राजधानीनगरस्य पञ्चशते पेट्रोल पम्पेषु त्रिषु पालिषु दिवानिशं द्वौ द्वौ चालकौ नियोजिताः सन्ति ये पीयूसी परीक्षणं कुर्वन्ति तथा प्रदूषण कारक वाहनानां इन्धन ग्रहणं निरोधयन्ति। तेषां सतर्कतया पीयूसी परीक्षणे प्रमादं कुर्वतां सप्तविंशतिः केन्द्राणां अनुज्ञापत्रं निलम्बितं कृतम्।

मुख्यमन्त्री अवदत् यत् उच्च भवनानां उपरि स्थापिता एण्टि स्मॉग गनाः भवनानां कृते कष्टकराः सन्ति तथा च प्रदूषण नियन्त्रणाय विशेषतया प्रभावशीलाः न सन्ति। तासां भारः अत्यधिकः अस्ति एकदिशायामेव जल छिड़कावं कुर्वन्ति जल उपयोगः अपि अत्यधिकः भवति। राजधानीनगरस्य बृहद् वाणिज्य परिसरेषु मॉल होटल तथा कार्यालय भवनेषु जी पञ्चात् ऊर्ध्वेषु १४८ एण्टि स्मॉग गनाः कार्यरताः सन्ति।

सा अवदत् यत् अधुना नियमाः परिवर्त्यन्ते। शीघ्रमेव उच्च भवनानां उपरि एतासां गनानां स्थाने मिस्ट स्प्रे प्रणाली स्थाप्यते। एषा प्रणाली राजधानीनगरस्य अनेकासु क्षेत्रेषु प्रभावीरीत्या कार्यं करोति। एषा सर्वासु दिशासु जल स्प्रे करोति एकस्य स्थाने बहुषु स्थानेषु स्थापयितुं शक्या भारः लघुः अस्ति जल उपयोगः अपि न्यूनः अस्ति। एषा पर्यावरणाय तथा समीपस्थ वृक्षलतादिभ्यः अपि हितकारी अस्ति।

मुख्यमन्त्री अवदत् यत् अन्येषु दीर्घकालीन उपायेषु अन्तर्गतं दिल्ली सरकारा राजधानीनगरस्य विभिन्नेषु क्षेत्रेषु वायु गुणवत्ता परीक्षणाय निगरानी केन्द्राणां संख्यां वर्धयिष्यति। अधुना राजधानीनगरस्य चत्वारिंशत् स्थलेषु सतत वायु गुणवत्ता निगरानी केन्द्राणि कार्यरतानि सन्ति। तेषु डीपीसीसी संस्थायाः चतुर्विंशतिः आईआईटीएम संस्थायाः सप्त सीपीसीबी संस्थायाः षट् तथा च केन्द्रीय आवास नगर कार्य मन्त्रालयस्य एकं केन्द्रं अस्ति।

वायु गुणवत्ता निरीक्षणजालं अधिकं सुदृढं कर्तुं सीएक्यूएम संस्थायाः निर्देशानुसारं दिल्ली सरकारा षट्सु नूतनेषु स्थानेषु निगरानी केन्द्राणि स्थापयिष्यति। एतानि केन्द्राणि इग्नू जेएनयू इसरो अर्थ सेन्टर कॉमनवेल्थ स्पोर्ट्स सेन्टर एनएसयूटी पश्चिमी परिसरे च स्थाप्यन्ते।

---------------

हिन्दुस्थान समाचार