Enter your Email Address to subscribe to our newsletters

—नाटके महामनसो जीवन-यात्रादर्शिता
वाराणसी, 24 दिसंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणसीनगरे स्थिते काशीहिन्दूविश्वविद्यालये (बीएचयू) मालवीयजयन्तीसमारोह 2025 अन्तर्गतं बुधवासरस्य सायंकाले विश्वविद्यालयस्य रंगमञ्चप्रकोष्ठेन “रंगशाला” नाम्ना महामना पण्डितमदनमोहनमालवीयस्य जीवनविचाराधारितं नाट्यप्रस्तुतिः आयोजिता। परिसरस्थे स्वातन्त्र्यभवनसभागारे प्रस्तुतं एतत् भावपूर्णं प्रेरणादायकं च नाटकम् दर्शकान् भावविभोरान् अकरोत्। कुलपतिसहिताः उपस्थिताः आचार्याः, विद्यार्थीगणाः, गणमान्यजनाश्च नाट्यस्य सजीवप्रस्तुत्या अत्यन्तं प्रभाविताः दृश्यन्ते स्म।
महामनः जीवनविरासतां केन्द्रं कृत्वा निर्मिते “महामना: कथा एक कर्मयोगी की” इति नाट्यप्रस्तुतौ प्रतीकत्रिपाठिना महामना मदनमोहनमालवीयस्य भूमिका निर्वहिता, तथा तन्यासिंहचौहानया युवमहामनः पात्रं सशक्ततया अभिनीतम्। प्रो सदाशिवकुमारद्विवेदी काशीनरेशस्य भूमिकां निभृतवान्, आनन्दिता मल्होत्रया एनी बेसेंटस्य भूमिकां कृत्वा नाटकं प्रभावशालिनं कृतम्।
नाटकस्य लेखनं शोधविद्यार्थिभ्यां हिमांशुतिवारी अङ्कितमिश्राभ्यां कृतम्, निर्देशनं च शोधछात्रेण रविकुमाररायेण नेतृत्वेन सम्पन्नम्। सहनिर्देशनस्य उत्तरदायित्वं समीरतिवारी शगुनश्रीवास्तवाभ्यां निभृतम्।
पारम्परिकजीवनीशैल्याः भिन्नरूपेण अस्मिन् नाटके महामनः बौद्धिकाः नैतिकाः शैक्षिकाश्च संघर्षाः भारतीयचेतनानिर्माणस्य पृष्ठभूमौ प्रभावशालिरूपेण प्रस्तुताः। नाट्यप्रस्तुतौ महामनः प्रारम्भिकजीवनम्, शिक्षाः, वकालतव्यवसायः, महाविद्यालयत्यागनिर्णयः, काशीहिन्दूविश्वविद्यालयस्थापनास्वप्नस्य साकारार्थं सत्तया सह निर्भीकसंघर्षः, तथा च तस्य निजीजीवनसंघर्षाः पत्नी मूना देव्या महत्त्वपूर्णा भूमिका च सशक्ततया मंचिता।
खचाखचपूरितं स्वातन्त्र्यभवनसभागारं सम्बोधयन् कुलपतिः प्रो अजितकुमारचतुर्वेदी नाटकसम्बद्धान् कलाकारान् तथा पर्दे पृष्ठतः कार्यरतान् सहयोगिनः शुभाशयैः अभिनन्दितवान्, विद्यार्थिभिः कृतस्य अस्य सर्जनात्मकप्रयत्नस्य प्रशंसां च अकरोत्।
रंगशालायाḥ समन्वयकः प्रो संजयकुमारः अवदत् यत् नाटकस्य लेखनं, निर्देशनं, अभिनयम्, मंचीयसर्जनात्मकता च सर्वं विश्वविद्यालयस्य विद्यार्थिभिरेव सम्पन्नम्। रंगशालायाḥ सहसमन्वयकः डॉ राहुलचतुर्वेदी उद्घाटनसत्रस्य संचालनं कृत्वा नाटकस्य स्वरूपं, कलाकारान्, समूहस्य अन्यसदस्यान् च उपस्थितजनसमूहस्य समक्षं परिचितान् अकरोत्।
अस्मिन् अवसरे कला संकायस्य संकायप्रमुखा प्रो सुषमा घिल्डियान, छात्राधिष्ठाता प्रो रञ्जनकुमारसिंहः सहितं विश्वविद्यालयस्य अनेके वरिष्ठपदाधिकारीणः, आचार्याः, विद्यार्थीगणाश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार