Enter your Email Address to subscribe to our newsletters

-उपमुख्यमंत्री विजय शर्मा अकरोद् औपनिवेशिक परंपरायाम् ऐतिहासिकं परिवर्तनम्
रायपुरम् 25 दिसंबरमासः (हि.स.)।
छत्तीसगढ-राज्ये मन्त्रिणां पुलिस्-विभागस्य उच्चाधिकारिणां च सामान्य-दर्शन-पर्यटन-निरीक्षणादिषु दिया मानस्य गार्ड ऑफ ऑनर इत्यस्य औपनिवेशिकपरम्परा समापिता। गृहमन्त्रालयेन 19 डिसेम्बर-मासे लिखितः पत्रः बुधवासरस्य रात्रौ सार्वजनिकीकृतः यस्मिन् गार्ड ऑफ ऑनर सम्बन्धिनि नियमाः परिवर्तिताः संति तथा एषः आदेशः तत्क्षणमेव प्रवर्तितः। उपमुख्यमन्त्री गृहमन्त्री च विजयशर्मा इत्यस्य विशेषप्रयत्नेन गृहविभागेन औपनिवेशिककालात् प्रवृत्तायाः अस्य परम्परायाः समीक्षा कृत्वा संशोधनादेशः जारीकृतः। अस्य निर्णयस्य उद्देश्यः पुलिस्बलस्य कार्यक्षमतायाः उपयोगं सुव्यवस्थितकानूनव्यवस्थायै कर्तुं तथा औपनिवेशिकचिन्तनसम्बद्धाः परम्पराः समाप्तुं कर्तुं च अस्ति।
उल्लेखनीयम् यत् गृहमन्त्री विजयशर्मा स्वयमेव विभागाधिकारिणां प्रति गार्ड ऑफ ऑनर इत्यस्य वर्तमानव्यवस्थायाः समीक्षा कृत्वा वर्तमानपरिस्थितेः अनुगुणं परिवर्तनं कार्येत इति निर्देशान् दत्तवन्तः। तस्याः पालनरूपेण गृहविभागेन पुलिस्बलम् अनावश्यक-औपचारिकताभ्यः विमोच्य तेषां कार्यक्षमताया: उपयोगः तेषां मूलकर्तव्यपालनस्य कृते करणीय इति संशोधनं कृतम्।
जारीकृते आदेशे निर्दिष्टम् यत् राज्यस्य अन्तर्गतं सामान्य-दौर-निरीक्षण-आगमन-प्रस्थानादिषु अधुना गृहमन्त्री समस्तमन्त्रीगणः पुलिस्-महानिदेशकः अन्ये च वरिष्ठ-पुलिस्-अधिकारिणः प्रति सलामी-गारद् न प्रदेयः। जिलाभ्रमण-दौर-निरीक्षणकालेषु पूर्वप्रचलिता सलामीव्यवस्था सम्पूर्णतया निरस्ताऽभवत्। अनेन पुलिस्बलस्य समयः ऊर्जा च सुरक्षा-कार्येषु कानून-व्यवस्था-रक्षणे जनसेवाकर्मसु च प्रभावितया उपयुज्येत।
एषः निषेधः राष्ट्रिय-राजकीय-समारोहेषु न भविष्यति। गणतन्त्रदिने षट्विंशतितमे जनवरि-मासे, स्वतंत्रतादिने पञ्चदशे अगस्ते, शहीद-पुलिस्-स्मृतिदिने एकविंशतितमे अक्टोबरि, राष्ट्रिय-एकतादिने एकत्रिंशतितमे अक्टोबरि, राजकीय-समारोहेषु पुलिस्-दीक्षान्त-प्रयाणेषु च औपचारिकाः सलामी-गारद्-व्यवस्था पूर्ववत् एव भविष्यति।
आदेशे एतदपि स्पष्टीकृतम् यत् प्रोटोकॉल्-अनुसारं संवैधानिकपदानि आसाद्य उपविष्टानां महानुभावानां विशिष्ट-अतिथीनां च कृते सलामी-गारद् व्यवस्था यथावत् एव भविष्यति। एषा नीति: शासनस्य प्रशासनसुधाराणां प्रति प्रतिबद्धतां दर्शयति तथा आधुनिक-जनोन्मुखी-व्यवस्थायाः दिशि एकं महत्वपूर्णं चरणम् अस्ति येन पुलिस्बलस्य कार्यक्षमतायां सकारात्मकः विकासः भविष्यति।
-
हिन्दुस्थान समाचार