Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 25 दिसंबरमासः (हि.स.)।
मुख्यमन्त्रिणा पुष्करसिंहेन धामी-नाम्ना पेशावर-काण्डस्य नायकस्य वीरचन्द्रसिंहस्य ‘गढ़वाली’ इति विख्यातस्य जयंती-निमित्ते मुख्यमन्त्रिगृह एव तस्य चित्रे श्रद्धासुमनांसि अर्पयित्वा तस्य भावपूर्णं स्मरणं कृतम्।
अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तं यद् देशस्य स्वतंत्र्याय यतमानायाः निहत्यजनतायाः प्रति गोळीप्रहारं कर्तुमादेशं निराकृत्य अद्वितीया देशभक्तिः, साहसम्, नैतिकदृढता च तेन प्रदर्शिता।
मुख्यमन्त्री अवदत् यद् भारतस्य स्वतंत्रतासङ्ग्रामे पेशावर-काण्डम् अतिमहत्त्वपूर्णः सोपानः आसीत्। भारतीयस्वतंत्रतासङ्ग्रामस्य इतिहासे एषा घटना एकः मैलाशिला इव सिद्धा, या स्वतंत्रताआन्दोलने नूतनां दिशं क्रान्तिकारिणीं भूमिं च अददादिति।
हिन्दुस्थान समाचार