Enter your Email Address to subscribe to our newsletters

मुरादाबादः, 25 दिसम्बरमासः (हिंस.)। उत्तरप्रदेशराज्यस्य मुरादाबादजिल्लायां हरिकृष्णसेवान्याससमितेः तत्वावधानने गुरुवासरे भव्यकलशयात्रया सह बुद्धिविहारप्रदेशस्थिते व्हाइट्हाउस्नाम्नि स्थाने नवदिनात्मकस्य श्रीरामकथामहोत्सवस्य शुभारम्भः कृतः। भगवान्श्रीरामस्य जयघोषान् कृत्वा कलशयात्रा कथास्थलम् आगत्य निववृते। तत्र वृन्दावनात आगतेन प्रख्यातेन सन्तेन कथावाचकेन शिवकुमारशास्त्रिणा महाराजेन श्रद्धालुभ्यः श्रीरामकथा श्राविता।कथावाचकः शिवकुमारशास्त्री श्रद्धालून् प्रति अवदत्— “अस्माकं मनः मोहमायायां बद्धं वर्तते। तस्य विमोचनाय श्रीरामकथाया आयोजनं भवति। यदि जीवनं सार्थकं कर्तुं इच्छथ, तर्हि श्रीरामकथां स्वजीवने अवतारयतः। संतविना भगवतः कृपा न सम्भवति। भगवत्कृपाप्राप्त्यर्थं सन्तः आवश्यकाः। सन्तः सः यः परमात्मना सह सूत्रेण बद्धः भवति, स एव अस्मान् सम्यक् मार्गे प्रेरयति।”अपरं सः अवदत्— “सत्सङ्गः नाम सन्तानां सङ्गतिः। एषा सङ्गतिः अस्मान् भगवतः सन्निधिं प्रति नयति तथा च असत्पथात् रक्षति।”पूजनं पण्डितेन गोपालदत्तेन विधिविधानुसारं समापादितम्। मुख्ययजमानरूपेण हरिकृष्णसेवान्याससमितेः अध्यक्षः ज्ञानेन्द्रदेवशर्मा स्वधर्मपत्नी मनुस्मृत्या सह उपस्थितः।समितिना उक्तम् यत् नवदिनीयं रामकथामहोत्सवम् २ जनवरीपर्यन्तं भविष्यति। कथा प्रतिदिनम् अपराह्णे त्रिभ्यः वादनतः सायं सप्तवादनपर्यन्तं भविष्यति। तदन्यत् २७ डिसेम्बरे श्रीरामजन्मोत्सवः, २९ डिसेम्बरे श्रीरामसीताविवाहः, २ जनवरी दिवसे श्रीरामराज्याभिषेकः भविष्यति।
हिन्दुस्थान समाचार