Enter your Email Address to subscribe to our newsletters

- तबला दिवसः एवं ग्वालियर गौरव दिवसः इति उपलक्ष्य जायते भव्यम् आयोजनम्
ग्वालियरम्, 25 दिसंबरमासः (हि.स.)।पूर्वप्रधानमन्त्रिणो भारतरत्न स्वर्गीय अटलबिहारीवाजपेयिनो जन्मदिवसस्य तथा तबला दिवसस्य अवसरयोः अद्य गुरुवासरे ग्वालियरनगरस्य गौरवदिवसः समारोहस्य रूपेण आचर्यते। अस्मिन् अवसरि संगीतधानी इति प्रसिद्धे ग्वालियरनगरे भक्ति संगीतस्य सूफीगायनस्य पार्श्वगायनस्य च क्षेत्रेषु विश्वविख्यातः कलाकारः कैलाशखेर नामकः प्रस्तुतिं करिष्यति।
जनसम्पर्काधिकारी हितेन्द्रसिंह भदौरिया अवदत् यत् संस्कृतिविभागस्य माध्यमेन संगीतिनगरी ग्वालियरनगरे तबलादिवसस्य ग्वालियर गौरवदिवसस्य च अवसरयोः कैलाशखेरस्य प्रस्तुति: मेलनमैदाननाम्नि स्थले निर्मियमाणे भव्ये पण्डाले सायंकाले सप्तवादनतः भविष्यति।कैलाशखेरस्य गायनशैली लोकसंगीतप्रभाविता अस्ति। तस्य गायने सूफीकव्वाली लोकसंगीतं भक्ति संगीतं च गम्भीरतया प्रतिबिम्बितम् यत् श्रोतॄन् शान्तेः आत्मचिन्तनस्य च मार्गे नयति। सः लगभग अष्टादशभाषासु गीतानि गातवान् अस्ति। सः बॉलिवूडचलच्चित्रेषु अपि बहुषु चलचित्रेषु पार्श्वगायनम् अकरोत्। तस्य ख्यातिः भारतीयसंगीतरसेन पूर्णस्य पॉप रॉक गायकस्य रूपेण अपि वर्तते।कैलाशखेरस्य प्रसिद्धेषु गीतिषु “बम लहरी” “यूं ही चला चल राहि” “तेरी दीवानी” “अल्लाह के बन्दे” “सांइयां” “तू जाने न” च “चन्द्रसिफारिश” इति गीतानि प्रमुखतानि सन्ति।
---
हिन्दुस्थान समाचार