Enter your Email Address to subscribe to our newsletters

संभलम्, 25 दिसंबरमासः (हि.स.)।जनपदसंभलस्य सदरनगरपालिका-परिषदः वार्ड् 18 स्थिते मोहल्ला ढेर इत्यस्मिन् गुरुवासरे सुशासनदिवसे अटलबिहारीवाजपेयी-स्मृतिउद्यानस्य उद्घाटनम् अभवत्।
उद्घाटनं तत्र उपस्थितया एकया बालिकया जिलाधिकारिणा च पुलिसअधीक्षकेण च संयुक्तरूपेण कृतम्। पूर्वं तस्मिन् स्थाने जनैः अतिक्रमणं कृतं आसीत्; तत् निष्कास्य तस्य निर्माणकार्यं कृतम्। अस्य पार्कनिर्माणे प्रायेण सप्तदशलक्षरूप्यकाणि व्ययितानि।
उद्घाटनानन्तरं जिलाधिकारी डॉ. राजेन्द्र पैंसिया इत्यनेन पत्रकारैः सह सञ्चरन् उवाच—“अद्य अत्र संभलनगरपालिकया भारतरत्नश्रद्धेयअटलबिहारीवाजपेयी-स्मृतिउद्यानपार्कस्य उद्घाटनं कृतम्। अस्य उद्यानस्य कारणेन अस्य प्रदेशस्य जनतायै महान् लाभः भविष्यति।”
पालिका-वार्ड् 18 इत्यस्य सभासद् चञ्चलगुप्तया उक्तं यत् पूर्वं अत्र केषाञ्चन जनानां द्वारा अतिक्रमणं कृतम् आसीत्, तद् अतिक्रमणं निष्कास्य अत्र भारतरत्नश्रद्धेयअटलबिहारीवाजपेयी-स्मृतिउद्याननिर्माणस्य प्रस्तावः नगरपालिकासभायां मया उपस्थापितः। अस्य पार्कस्य निर्माणे प्रायेण अष्टमासाः गताः, व्ययश्च प्रायेण सप्तदशलक्षरूप्यकाणि जातानि।
संभलनगरपालिकायाः अधिशाषी-अधिकारी डॉ. मणिभूषणतिवारी इत्यपि अवोचत् यत् अस्मात् स्मृतिउद्यानपार्कात् क्षेत्रीयजनतायै महदुपकारं भविष्यति। अस्मिन् पार्के तस्मिन् काले संभलनगरे आगतस्य भारतरत्नश्रद्धेयअटलबिहारीवाजपेयीस्य तदानीन्तनानि छायाचित्राणि स्मृतिरूपेणापि स्थापितानि सन्ति।
हिन्दुस्थान समाचार