अटलजेर्जन्मदिवसे विचारगोष्ठी, प्रतियोगितासु विजयीप्रतिभागिनः पुरस्कृताः
-विजयिनः प्रतिभागिभ्यो नकद राशिं दत्वा कृतास्सम्मानिताः फर्रुखाबादम्, 25 दिसंबरमासः (हि.स.)देशव्यापीस्तरे पूर्वप्रधानमन्त्रिणोऽटलबिहारीवाजपेयिनो जन्मदिवसः अद्य सुशासनदिवसत्वेन आचर्यते। तेनैव क्रमेन उत्तरप्रदेशस्य फर्रुखाबादजनपदस्य कलेक्ट्रेट्-सभा
छात्राओं को सम्मानित करते डीएम


-विजयिनः प्रतिभागिभ्यो नकद राशिं दत्वा कृतास्सम्मानिताः

फर्रुखाबादम्, 25 दिसंबरमासः (हि.स.)देशव्यापीस्तरे पूर्वप्रधानमन्त्रिणोऽटलबिहारीवाजपेयिनो जन्मदिवसः अद्य सुशासनदिवसत्वेन आचर्यते। तेनैव क्रमेन उत्तरप्रदेशस्य फर्रुखाबादजनपदस्य कलेक्ट्रेट्-सभागारे कार्यक्रमः आयोजितः। उच्चशिक्षाविभागस्य आधिपत्ये सुशासनसप्ताहस्य अन्तर्गते “भारतरत्न-अटलबिहारीवाजपेयिनो - जन्मशताब्दीवर्षोपलक्ष्ये सुशासनदिवस” इत्यस्मिन् विषये विचारगोष्ठी तथा पुरस्कारवितरणकार्यक्रमः सम्पादितः।

कार्यक्रमस्य शुभारम्भः सांसदेन मुकेशराजपूतेन अटलबिहारीवाजपेयिनश्चित्रे माल्यार्पणं दीपप्रज्वलनं च कृत्वा कृतः। अनन्तरं जिलाधिकारिणा आशुतोषकुमारद्विवेदीनाम्ना सांसदं शाल्याः आच्छादनपुरस्कारेण सम्मानितम्। ततः पश्चात् सांसदेन जिलाधिकारीणा च भारतरत्नमहामन्येन अटलबिहारीवाजपेयीसम्बन्धिनः स्वस्वविचाराः प्रस्तुताः। ततो लखनऊनगरे आयोजितस्य मुख्यकार्यक्रमस्य सीधं प्रसारणं दृष्टम्।

कार्यक्रमे विविधानां विद्यालयानां विद्यार्थिभिः सुशासनविषये अटलस्य च विचारेषु स्वविचाराः प्रस्तुताः। सुशासनसप्ताहस्य अन्तर्ये आयोजितासु भाषण-एकलकाव्यपाठ-निबन्धलेखनप्रतियोगासु विजेतृभ्यः पुरस्काराः प्रदानाः।

भाषणप्रतियोगिताप्रथमः पुरस्कारः – निवेदिता अवस्थी, बद्रीविशाल पी.जी. कॉलेज – ₹10,000द्वितीयः पुरस्कारः – शिवम् कुमार, एलवाईडिग्रीकॉलेज, कायमगंज – ₹5,000तृतीयः पुरस्कारः – आदित्य रत्न शाक्य, मान्यवर कांशीराममहाविद्यालय, निनौआ, फर्रुखाबाद – ₹2,500

एकलकाव्यपाठप्रतियोगिताप्रथमः पुरस्कारः – निवेदिता अवस्थी, बद्रीविशाल पी.जी. कॉलेज – ₹10,000द्वितीयः पुरस्कारः – पल्लवी अग्निहोत्री, दयानन्दइन्टरकॉलेज, अमृतपुर, फर्रुखाबाद – ₹5,000तृतीयः पुरस्कारः – मञ्जू, नेशनल पब्लिक इन्टरकॉलेज, श्योगनपुर, फर्रुखाबाद – ₹2,500

निबन्धलेखनप्रतियोगिताप्रथमः पुरस्कारः – आदेश कुमार, पण्डित दीनदयाल उपाध्याय राजकीय इन्टरकॉलेज, रोशनाबाद – ₹5,000द्वितीयः पुरस्कारः – दिव्या श्रीवास्तव, कन्या विद्यापीठ इन्टरकॉलेज, कायमगंज – ₹3,000तृतीयः पुरस्कारः – कामिनी महीयसी, महादेवीवर्मा राजकीय इन्टरकॉलेज, फतेहगढ़ – ₹2,000

अस्मिन्नेव अवसरे पुलिसअधीक्षिका श्रीमती आर्तीसिंह, मुख्यविकासाधिकारी, जिलाविकासाधिकारी, पी.डी. डी.आर.डी.ए., जिलाविद्यालयनिरीक्षकः सहिताः समस्तविभागानामधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।

----------------

-

हिन्दुस्थान समाचार