पावरलिफ्टर संगीता राणा जाता देवी अहिल्याबाई होल्करः सम्मानेन सम्मानिता
हरिद्वारम्, 25 दिसंबरमासः (हि.स.)। हरिद्वारनिवासिनी अन्तर्राष्ट्रीयपावरलिफ्टर् संगीता राणा देवीअहिल्याबाईहोल्कर-सम्माननेन सम्मानिता अभवत्। देहरादूने “सोसाइटी आफ् मिशन 4-जी प्लस” इत्यस्य वार्षिकोत्सव-२०२५ इत्यस्मिन्नुत्सवे मन्त्रिमण्डलसदस्यः सत्पाल
सम्मानित होती संगीता राणा


हरिद्वारम्, 25 दिसंबरमासः (हि.स.)।

हरिद्वारनिवासिनी अन्तर्राष्ट्रीयपावरलिफ्टर् संगीता राणा देवीअहिल्याबाईहोल्कर-सम्माननेन सम्मानिता अभवत्। देहरादूने “सोसाइटी आफ् मिशन 4-जी प्लस” इत्यस्य वार्षिकोत्सव-२०२५ इत्यस्मिन्नुत्सवे मन्त्रिमण्डलसदस्यः सत्पालमहाराजः क्रीडामार्गेण समाजसेवायां सांस्कृतिकसंवर्धनक्षेत्रे च तया कृतं उल्लेखनीययोगदानं दृष्ट्वा संगीता राणां देवीअहिल्याबाईहोल्कर-सम्मानं दत्तवन्तः। सम्मानरूपेण तस्याैः सम्मानपत्रं देवीअहिल्याबायाः प्रतिमा चाङ्गवस्त्रं च प्रदानं कृतम्।

अस्मिन् अवसरे प्रान्तस्य वनमन्त्री सुबोधउनीयालः, भारतीयजनतापक्षस्य प्रान्ताध्यक्षः महेन्द्रभट्टः, वरिष्ठसाहित्यकारः मधुसूदनहोल्करः, होल्करएजुकेशनट्रस्टसम्बद्धः अधिवक्ताः पंकजहोल्करः, ख्यातः साहित्यकारः ईराकुकरॆती, संस्थायाः संस्थापकाध्यक्षः सुभाषचन्द्रभट्टः च उपस्थिताः। तथा प्रान्तस्य विविधानि जिलानि समुपेत्य समाजस्य नानाक्षेत्रेभ्यः आगताः देवीअहिल्याबाईसम्मान-कर्मयोगीसम्मानलाभिनः, अन्ये च समाजस्य विविधानां क्षेत्राणां प्रतिनिधयः प्रबुद्धनागरिकाश्च बहुसंख्यया उपस्थिताः आसन्।

हिन्दुस्थान समाचार