(वार्षिकी-2025) हुगली जुट उद्योगाय परिस्थितिभिः पूरितं वर्षमिदम्
हुगली, 25 दिसंबरमासः (हि.स.)। देशस्य जूट-उद्योगस्य मेरुः इति मन्ने जाने हुग्ली-जिलायाः कृते वर्षम् 2025 परिस्थितिपुरितं अभवत्। यः कदाचित् सुवर्णतन्तु इति ख्यातः आसीत् सः अयं जनपदः सर्वं वर्षं नित्यनिरुद्धानां जूट् मिलानां बकायवेतनस्य प्रोविडेण्ट्-
सांकेतिक तस्वीर


हुगली, 25 दिसंबरमासः (हि.स.)।

देशस्य जूट-उद्योगस्य मेरुः इति मन्ने जाने हुग्ली-जिलायाः कृते वर्षम् 2025 परिस्थितिपुरितं अभवत्। यः कदाचित् सुवर्णतन्तु इति ख्यातः आसीत् सः अयं जनपदः सर्वं वर्षं नित्यनिरुद्धानां जूट् मिलानां बकायवेतनस्य प्रोविडेण्ट्-फण्ड् ग्रेच्युटी-भुगतान इत्यनयोः अनियमिततायाः च तथा श्रमिक-असन्तोषस्य वार्तासु एव प्रकाशते स्म। उत्पादनस्य ह्रासेन रोजगारसंकटेन च जूट् उद्योगःपुनरपि गम्भीरे संकटे बद्धः दृश्यते स्म।

वर्षस्य आरम्भ एव श्रमिकाणां कृते निराशाजनकः अभवत्। जनवरि-मार्च-मासयोः मध्ये श्रीरामपुर ऋषरा भद्रेश्वर चन्दननगर चम्पदानी प्रदेशेषु अनेकासु जूट् मिलासु महङ्गाई-भत्ता बहुमासान् यावत् बकायम् आसीत्। अनेकानां श्रमिकाणां वेतनं समये न प्राप्तम् प्रोविडेण्ट्-फण्ड् ग्रेच्युटी च न समर्पिते इति नित्यं शिकायताः आगच्छन्ति स्म। यूनियन-नेतारः चेतावनीं दत्तवन्तः यत् यदि शीघ्रं समाधानं न लैयते तर्हि महासङ्ग्रामस्य मार्गः ग्रहिष्यते इति।

एप्रिल्- जून्-मासयोः स्थितिः अपरम् अपि दारुणा अभवत्। कतिपयासु मिलासु आंशिक-तालकं जातमासीत् कुत्रचित् उत्पादनं सम्यक् एव निलंबितम्। कार्य-दिनानां कटनेन श्रमिकाणां आमदनी प्रभाविताभवत् तथा अनेकाः कौशलसम्पन्नाः कार्यकर्तारःजीविकायाः अन्वेषणेन अन्यराज्यानि प्रति गन्तुं आरब्धवन्तः। अनेन केवलं उद्योगः न अपि तु स्थानिकी अर्थव्यवस्था अपि प्रभाविताभवत्।

वर्षा-ऋतौ यदा उत्पादनवृद्धेः अपेक्षा भवति तदा अपि स्थिति: न सुधारिता। जुलै अगस्त्-मासयोः अनेकत्र आंदोलनं मेलनं ज्ञापनम् इत्येषां प्रदाने च अभवन् तथापि श्रमिक-संगठनानाम् आरोपः आसीत् यत् प्रशासनस्य सरकारायाश्च पक्षेण दृढोपक्रमः न कृतः। उत्सव-कालसन्निधाने अपि श्रमिकेभ्यः लाभः -भुक्तिश्च न प्राप्ता अतः असन्तोषः अधिकतरं जातः।

नवम्बर-मासे प्रथमवारं हुग्ली-जिलायाः प्रायः सर्वाणि जूट् मिल् यूनियनानि एके एव मञ्चे संजातानि। तैः संयुक्तरूपेण महङ्गाई-भत्तस्य प्रोविडेण्ट्-फण्डस्य ग्रेच्युटेः पेंशनस्य श्रमिकेषु क्रियमाणानां अत्याचाराणां च तथा निरुद्ध-मिलानां विषये मुद्दाः उत्तोलिताः। अस्यः श्रृंखलायाः अन्तर्गतं द्वादशे डिसेम्बर-मासे महेश-श्रीरामपुरप्रदेशे जिला-स्तरीया ट्रेड्-यूनियन्-को-आर्डिनेशन्-समितेः पताकातले एकः महत्वपूर्णः सभासमागमः अभवत् यस्मिन् सर्वजिल्लातः यूनियन-नेतारः श्रमिकप्रतिनिधयः च उपस्थिताः।

अस्य सभायाः पश्चात् वर्षान्ते प्रथमं सकारात्मका सङ्केताः प्राप्ताः। कार्यक्रमस्य संयोजकः विजयपाण्डेय अवदत् यत् केन्द्रीयः श्रम-रोजगारमन्त्री मनसुख् माण्डविया चतुर्थे जनवरि 2026 तमे दिवसे हुग्ली आगत्य जूट् मिल् यूनियन्-नेतृभिः सह मिलिष्यते। एषः प्रथमः अवसरः भविष्यति यदा हुग्ली-जूट्-श्रमिकाः स्वसमस्याः प्रत्यक्षं केन्द्रीयमन्त्रिणः पुरतः उपस्थापयितुं शक्नुवन्ति। वर्षम् 2025 संघर्षेऽतीतः तथापि 2026 तः प्रभृत्ति जूट् उद्योगाय नूतनदिशा लभ्येत इति आशा अद्यापि वर्तते।

---------------

हिन्दुस्थान समाचार