अटलवर्यस्य जयन्त्याः निमित्तं खण्डस्तरीयविज्ञानप्रश्नोत्तरी-प्रतियोगिता आयोजिताऽभवत्
हाथरसम्, २५ दिसंबरमासः (हि.स.)। भारतरत्नः पूर्वप्रधानमन्त्री अटलविहारीवाजपेयीवर्यस्य जयन्त्यवसरे खण्डस्तरीया विज्ञानप्रश्नोत्तरीप्रतियोगिता आयोजिताभवत्। राष्ट्रियाविष्कार-अभियानस्य अन्तर्गतं सादाबाद-खण्डसम्पत्स्रोतकेंद्रे स्थिते संविलियनविद्यालये स
अटल जी जयंती पर हुआ विज्ञान क्विज का आयोजन


हाथरसम्, २५ दिसंबरमासः (हि.स.)। भारतरत्नः पूर्वप्रधानमन्त्री अटलविहारीवाजपेयीवर्यस्य जयन्त्यवसरे खण्डस्तरीया विज्ञानप्रश्नोत्तरीप्रतियोगिता आयोजिताभवत्। राष्ट्रियाविष्कार-अभियानस्य अन्तर्गतं सादाबाद-खण्डसम्पत्स्रोतकेंद्रे स्थिते संविलियनविद्यालये सादाबाद-द्वितीयपरिसरेऽयं कार्यक्रमः सम्पन्नः। अस्मिन् स्पर्धायाम् उच्च-प्राथमिकसंविलियन-विद्यालयानां छात्र-छात्रिकाः उत्साहेन सहभागीभूताः।

प्रतियोगितायां उत्कृष्ठं प्रदर्शनं कृतवन्तः शीर्ष-दश विद्यार्थीणाः चयनं कृत्वा तेषु पुरस्काराणि प्रमाणपत्राणि च वितरितानि।

संविलियनविद्यालयस्य अभयपुरा-स्थितस्य छात्रा प्रगति चौहान प्रथमं स्थानम् अलभत। गढी-भगता-उच्च-प्राथमिक-विद्यालयस्य छात्रा शिविका चौधरी द्वितीयं स्थानम् प्राप्तवती। कंपोजिटविद्यालयस्य अन्धपुरा-स्थितस्य छात्रा साक्षी तृतीयं स्थानम् अवाप्तवती। मंस्या- कला-कंपोजिटविद्यालयस्य अंशुल-कुमार चतुर्थं स्थानम् अलभत। संविलियनविद्यालयस्य सादाबाद-द्वितीय-स्थितायाः हर्षितागौतम पंचमं स्थानम् प्राप्तवती। सर्वेषां विजयी-विद्यार्थिनां लेखनसामग्री-उपहाराः, सम्मानचिह्नः, अन्ये च पुरस्काराः प्रदत्ता, सन्मानश्च कृतः।

अस्मिन् अवसरे खण्डशिक्षाधिकारी श्रीमती पूनम् चौधरी छात्र-छात्रिकाः विज्ञानस्य प्रति रुचिं वर्धयितुं नवोन्मेषं च स्वीकर्तुं प्रेरितवती।

कार्यक्रमे शिक्षकाः—योगेश-शरण-शर्मा, ए.आर.पी. लक्ष्मणसिंह, ए.आर.पी. देवेंद्र-चौधरी, ए.आर.पी. कृष्णकान्त-गर्ग, गौरव-गौतम, ललिता-कुशवाह, मुकेश-कुमार, राकेश-वर्मा, मोनू, विष्णु, उपेंद्र, सरिता-चौधरी, बबली, अफसाना, प्रज्ञा, प्रेमपाल, नेत्रपाल—इत्यादयः बहुसंख्ये शिक्षकाः कर्मचारीणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता