प्रदेशीय-भाजपा-संघटनस्य विभिन्नेषु प्रकोष्ठेषु नूतनसमूहः उद्घोषितः
शिमला, 27 दिसंबरमासः (हि.स.)। भारतीय-जनता-पक्षेण हिमाचल-प्रदेशे संगठनं अधिकं सुदृढं प्रभावीञ्च कर्तुम् उद्देश्येन विभिन्नेषु प्रकोष्ठेषु नूतनाः संगठनात्मक-नियुक्तयः कृताः। पक्षस्य शीर्ष-नेतृत्वेन सह विचार-विमर्शानन्तरं वरिष्ठ-नागरिक-प्रकोष्ठे, सीए-
प्रदेशीय-भाजपा-संघटनस्य विभिन्नेषु प्रकोष्ठेषु नूतनसमूहः उद्घोषितः


शिमला, 27 दिसंबरमासः (हि.स.)। भारतीय-जनता-पक्षेण हिमाचल-प्रदेशे संगठनं अधिकं सुदृढं प्रभावीञ्च कर्तुम् उद्देश्येन विभिन्नेषु प्रकोष्ठेषु नूतनाः संगठनात्मक-नियुक्तयः कृताः। पक्षस्य शीर्ष-नेतृत्वेन सह विचार-विमर्शानन्तरं वरिष्ठ-नागरिक-प्रकोष्ठे, सीए-प्रकोष्ठे, औद्योगिक-प्रकोष्ठे, कानून-एवम् विधिक-प्रकोष्ठे तथा निर्वाचन-प्रकोष्ठे प्रदेशसह-संयोजकाणां, जिलासंयोजकाणां एवं सहसंयोजकाणां घोषणा कृता। पक्षेण स्पष्टं कृतं यत् सर्वाः नियुक्तयः तात्कालिक-प्रभावेन प्रवर्तिष्यन्ते।

वरिष्ठ-नागरिक-प्रकोष्ठस्य प्रदेश-संयोजकः देवराज-शर्मा अवदत् यत् अस्मिन् प्रकोष्ठे प्रदेश-सह-संयोजकरूपेण विजय-शर्मा, हरि-चन्द-वर्मा, रतन-चौहान, विजय-ज्योति-सेन, मालविका-पठानिया, डॉ. डीठक-सैनी, नरेंद्र-सिंह, चतुर्भुज-शर्मा, कर्मचन्द-सैनी, चांद-आर्य-वर्मा, दुर्गा-शर्मा तथा अंजलि-वर्मा इत्येतेषां दायित्वं समर्पितम्। अतोऽपि अधिकं मण्डी-जनपदात् देहराजनपदपर्यन्तं सर्वेषु जनपदेषु जिला-संयोजकाणां सहसंयोजकाणां च नियुक्तयः कृताः, येन वरिष्ठ-नागरिकाः संगठनेन अधिकं सुदृढतया संयोज्येरन्।

सीए-प्रकोष्ठस्य प्रदेश-संयोजकः शिवकुमार-गर्गः अवदत् यत् चम्बा, काङ्गड़ा, नूरपुर, पालमपुर, कुल्लू, मण्डी, सुन्दरनगर, हमीरपुर, ऊना, देहरा, बिलासपुर, सिरमौर, महासू, शिमला तथा सोलन जनपदेषु जिला-संयोजकाणां सह-संयोजकाणां च घोषणा कृता। पक्षस्य कथनं यत् अनेन चार्टर्ड-अकाउन्टेण्ट् इत्यादीनां व्यावसायिक-वर्गाणां संगठनें सहभागिता अधिकं सुदृढा भविष्यति। औद्योगिक-प्रकोष्ठस्य प्रदेश-संयोजकः चमनसिंह-कपूरः अवदत् यत् प्रदेश-सह-संयोजकरूपेण हरवंश-पटियाल, विकास-सेठ, संदीप-कंवर, नीतिन-गोयल, मदन-शर्मा, शिव-डोगरा, अरुण-शर्मा, निशान्त-ठाकुर तथा हेमराज-चौधरी इत्येतेषां दायित्वं दत्तम्। सह ऊना, सोलन, पालमपुर, चम्बा, शिमला, हमीरपुर, नूरपुर, सिरमौर तथा कुल्लू जनपदेषु जिला-संयोजकाणां नियुक्तयः कृताः, येन उद्योग-व्यापार-सम्बद्धाः जनाः संगठनेन संयोज्येरन्।

कानून-एवम् विधिक-प्रकोष्ठस्य प्रदेश-संयोजकः अंशुल-बंसलः अवदत् यत् प्रदेश-सह-संयोजकरूपेण रमेश-चौधरी, एम्. जी. नय्यर, खड़क-सिंह, नरेंद्र-सिंह-परमार, सुशील-ठाकुर तथा टी. डी. शर्मा नियुक्ताः। अतोऽपि शिमला, महासू, सोलन, बिलासपुर, हमीरपुर, ऊना, सिरमौर, देहरा, नूरपुर, कुल्लू, चम्बा तथा किन्नौर जनपदेषु जिला-संयोजकाणां सह-संयोजकाणां च घोषणा कृता।

निर्वाचन-प्रकोष्ठस्य प्रदेशसंयोजकः जगदीशचन्द्रशर्मा अवदत् यत् प्रदेशसहसंयोजकरूपेण राजेशशर्मा, राजीवशर्मा (आईएएस), सुनील-मशर्मा तथा दलिपठाकुरछिब्बर इत्येतेषां दायित्वं दत्तम्। एवं मण्डी, कुल्लू, ऊना, सोलन, काङ्गड़ा, पालमपुर, लाहौल-स्पीति, शिमला, बिलासपुर, हमीरपुर, नूरपुर, महासू, किन्नौर तथा सिरमौर जनपदेषु जनपद-संयोजकाणां सह-संयोजकाणां च नियुक्तयः कृताः, येन आगामिनिर्वाचनानां सिद्धता अधिला सुदृढा भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता