मंत्री श्रवण कुमारोऽकरोत्  जिल्लायाः विकास योजनानां समीक्षाम्
सारणम्, 27 दिसंबरमासः (हि.स.)। छपरा-जनपदे ग्रामीणविकास-परिवहनमन्त्री बिहारराज्यस्य श्रवणकुमारनाम्ना शनिवासरे जनपदे प्रवर्तमानानां विविधानां जनकल्याणकारीयोजनानां सघनसमीक्षा कृता। जिला-प्रखण्ड-स्तरीय-पदाधिकारिभिः सह आयोजितायाम् अस्याम् उच्चस्तरीय-
मंत्री


मंत्री


मंत्री


सारणम्, 27 दिसंबरमासः (हि.स.)।

छपरा-जनपदे ग्रामीणविकास-परिवहनमन्त्री बिहारराज्यस्य श्रवणकुमारनाम्ना शनिवासरे जनपदे प्रवर्तमानानां विविधानां जनकल्याणकारीयोजनानां सघनसमीक्षा कृता।

जिला-प्रखण्ड-स्तरीय-पदाधिकारिभिः सह आयोजितायाम् अस्याम् उच्चस्तरीय-समीक्षासभायाम् मन्त्रिणा निर्देशो दत्तः यत् विकासयोजनानां क्रियान्वयने कस्यापि प्रकारस्य शैथिल्यं न सह्यं भविष्यति। आवासयोजनायाः प्रगतिम् आलोक्य स उक्तवान् यत् चयनितकुटुम्बेभ्यः प्रथम-द्वितीय-तृतीय-किष्टिरूपेण धनराशेः भुगतानं त्वरितं सुनिश्चितव्यं। सर्वान् सम्बद्धाधिकारिणः उद्दिश्य लक्ष्यं निश्चितं कृतम्—यत् 31 मार्च 2026 पर्यन्तं सर्वेषाम् आवासानां निर्माणकार्यं सर्वथा पूर्णं करणीयेति।

सर्वे-प्रक्रियायाः अन्तर्गतं नूतनतया योजितानां नाम्नां सत्यापनार्थं सर्वेभ्यः प्रखण्ड-विकास-पदाधिकारिभ्यः 15 जनवरी 2025 पर्यन्तं अल्टिमेटं दत्तम्। रोजगारगारण्टीविषये चर्चां कुर्वन् मन्त्री मन्रेगा-जिलाप्रोग्रामाधिकारिणं निर्देशितवान् यत् ये कुटुम्बाः कार्यं याचितवन्तः, तेषां प्रति सप्ताहमेकस्मिन् अनिवार्यतया कार्यसुलभता सुनिश्चितव्या। स्वच्छताअभियानस्य समीक्षायां स अवलोकितवान् यत् केषांचन कुटुम्बानां प्रति पूर्वमेव देया प्रोत्साहनराशिः अद्यापि लंबिता अस्ति।

एतत् निरीक्ष्य कठोरां अप्रसादभावनां प्रकट्य स जिल्हासमन्वयकं—जिल्हाजलस्वच्छतासमितेः—एकमासपर्यन्तं सर्वेषां लंबितभुगतानानां निष्पादनं कर्तुं आदेशं दत्तवान्। परिवहनविभागस्य समीक्षां कुर्वन् मन्त्री श्रवणकुमारः जिल्हापरिवहनपदाधिकाऱिणं प्रति उक्तवान् यत् विभागीयसेवेषु पारदर्शिता आनीयताम्, सर्वे योजनाः ससमयम् निष्पाद्यन्ताम्, यथा सामान्यजनाः कार्यालयानां प्रदक्षिणां कर्तुं न बाध्यन्ते।

अस्याः समीक्षासभायाः अवसरि प्रभारी-उपविकासआयुक्तः, डीआरडीए-निदेशकः, जिल्हापरिवहनपदाधिकाऱी, सर्वे प्रखण्ड-विकास-पदाधिकारी, मन्रेगा-पीओ, तथा ग्रामीणविकासविभागस्य अन्ये जिल्लास्तरीय-पदाधिकारिणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार