अधुना मेला रामनगरियायां कल्पवासिभ्यो प्राप्स्यते हनुमानजेः दर्शनलाभः
वैदिक मंत्रोच्चारण के साथ हुई प्राण प्रतिष्ठा
प्राण प्रतिष्ठा करते विद्वान


फर्रुखाबादम्,27 दिसंबरमासः ( हि.स.)।गङ्गातटे पाञ्चालघाटस्य समीपे दुर्वासऋषेः आश्रमस्थिते शिवमन्दिरप्राङ्गणे शनिवासरे हनुमन्महाराजस्य मूर्तेः विधिवत् प्राणप्रतिष्ठा सम्पन्ना। तस्मिन्नवसरे सर्वत्र धार्मिकवातावरणं विरराज तथा च भक्तजनानां महान् जनसमूहो उपस्थितः आसीत्।

प्राणप्रतिष्ठाया अनन्तरं वैदिकमन्त्रोच्चारणमध्ये होमपूजन आरत्या प्रसादवितरणादीनां कार्यक्रमः आयोजितः। कार्यक्रमे भक्ताः हनुमतः आराधनां कृत्वा क्षेत्रस्य सुखसमृद्ध्यै प्रार्थनां अकुर्वन्।

आयोजनसमये जयभोलेबाबा समितेः अध्यक्षः प्रमोदद्विवेदी दीपकगुप्त अतुलपाण्डेय अक्कुगुप्त बृजेशअग्निहोत्रि डॉ संजीवमिश्र आनन्दमोहनमिश्र विनीतसिंह कुलदीपसिंह शिवमदिक्षित ठाकुरअजयप्रतापसिंह विक्कीठाकुर पण्डितनन्हेलाल आशीषगुप्त इत्यादयः बहवः भक्तजनाः सहभागित्वं कृतवन्तः।

विशेषं ज्ञातव्यं यत् अत्र कल्पवासं कुर्वन्तः भक्ताः अधुना हनुमतः दर्शनस्य लाभं प्राप्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार