सतनायाम् औद्योगिक विकासाय 100 एकडमितायां भूमौ निर्मास्यामो नूतनम् इंडस्ट्रियल-उद्यानम् : मुख्यमंत्री डॉ. यादवः
- जिला स्तरे आयोजयिष्यते सेक्टर इत्याधारितं रीजनल इंडस्ट्री कॉन्क्लेव - सतनायाम् एमएसएमई सेक्टर इत्यस्य रीजनल इंडस्ट्री कॉन्क्लेव भविष्यति - मुख्यमंत्री सतनायां विंध्य व्यापार मेलापके आयोजितः कार्यक्रमः संबोधितः भोपालम्, 27 दिसम्बरमासः (हि.स
मुख्यमंत्री डॉ. मोहन यादव ने सतना में विंध्य व्यापार मेले में आयोजित कार्यक्रम को किया संबोधित


- जिला स्तरे आयोजयिष्यते सेक्टर इत्याधारितं रीजनल इंडस्ट्री कॉन्क्लेव

- सतनायाम् एमएसएमई सेक्टर इत्यस्य रीजनल इंडस्ट्री कॉन्क्लेव भविष्यति

- मुख्यमंत्री सतनायां विंध्य व्यापार मेलापके आयोजितः कार्यक्रमः संबोधितः

भोपालम्, 27 दिसम्बरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमंत्री डॉ मोहन यादवः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनो नेतृत्वे भारतम् अन्तरिक्ष उद्योग रक्षा इति सर्वेषु क्षेत्रेषु विश्वस्मिन् स्वस्य उपलब्धीनां ध्वजम् उत्तोलयति। राज्यसर्वकारोऽपि प्रदेशे उद्योग व्यापारयोः संवर्धनार्थं दृढनिश्चयेन कार्यं करोति। केन्द्रीयगृहसह सहकारितामन्त्री अमितशाहेन मध्यप्रदेशे क्षेत्रीयस्तरे इंडस्ट्री कॉन्क्लेव् कर्तुं कृतनिश्चयस्य प्रशंसा कृता। इदानीं ते जिलास्तरे अपि आयोजिताः भविष्यन्ति। पूर्वं कटनी नगरे माइनिंग् क्षेत्रकेन्द्रितम् क्षेत्रीयम् उद्योगसम्मेलनम् अभवत् इदानीं सतना नगरे एम एस एम ई क्षेत्राधारितम् उद्योगसम्मेलनम् आयोज्यते। प्रदेशः सर्वसुविधायुक्तः भवेत् मध्यप्रदेशः विकासस्पर्धायां अग्रे भवेत् युवेभ्यः जीविकानाम् अवसराः लभेरन् इति कारणेन राज्यसरकारा प्रत्येकपदे उद्यमिभिः सह तिष्ठति।

मुख्यमंत्री डॉ यादवः शनिवासरे सतना नगरे विंध्य व्यापारमेलनिमित्तं जनान् सम्बोधयन् उक्तवन्तः यत् सतना विंध्यप्रदेशे व्यापारस्य महत्त्वपूर्णं केन्द्रम् अस्ति। विंध्य व्यापारमेलनः सफलायोजनस्य कृते सतनावासिनः अभिनन्दनार्हाः। ते अवदन् यत् सतना नगरे औद्योगिकविकासार्थं शतएकरपर्यन्तभूमौ नूतनः औद्योगिकोपवनः निर्मीयते। मुख्यमंत्रीना विंध्य व्यापारमेलनिमित्तं विंध्य चेम्बर् ऑफ् कॉमर्स इत्यस्मै अष्टएकडमितस्य भूमिदानस्य च सतना नगरे व्यापारसम्बद्धक्रियाणां सांस्कृतिकसम्मेलनानां च आयोजनार्थं पी पी पी प्रकारेण गीता भवननिर्माणस्य घोषणापि कृता।

मुख्यमंत्री डॉ यादवः अवदन् यत् राज्यसर्वकारो द्वाभ्याम् वर्षाभ्यां विंध्यप्रदेशे एयर कनेक्टिविटी इति सेतुबद्धता वर्धिता। सतना विमानतलस्य रनवे अष्टादशशत मीटरपर्यन्तं विस्तारः क्रियते येन महत्सम्पन्नानि जेटविमानानि अपि तत्र अवतरणं कर्तुं शक्नुवन्ति। चित्रकूटधाम शारदा मातामन्दिरं च सतना क्षेत्रं धार्मिकपर्यटनस्य अपि महत्त्वपूर्णं केन्द्रम् अस्ति। राज्यसरकारा धार्मिकपर्यटनस्य वर्धनार्थं हेलीसेवा आरब्धा। कठिनकाले साहाय्यार्थं पीएमश्री एअरएम्बुलेंस व्यवस्था कृताः। नववर्षे प्रदेशवासिभ्यः सरकारीबससेवा अपि दास्यते। ते उक्तवन्तः यत् सरकारा मार्गदुर्घटनासु घातितानां साहाय्यार्थं राहवीर योजना आरब्धवती। ये जनाः घातितान् चिकित्सालयं प्रति नयन्ति तेषां कृते सरकारा पञ्चविंशतिसहस्ररूप्यकपर्यन्तं प्रोत्साहनराशिं ददाति।

मुख्यमंत्री डॉ यादवः उक्तवन्तः यत् राज्यसरकारा अगामिपञ्चवर्षेषु राज्यस्य बजट् द्विगुणं कृत्वा प्रायः सप्तलाखकरोडपर्यन्तं नयितुं लक्ष्यं कृतवती। युवेभ्यः रोजगारसांस्थानि ददाति। युवानः स्वरोज़गाराय अपि प्रेर्यन्ते। होटलव्यवसाये राज्यसरकारा त्रिंशतांशपर्यन्तं अनुदानप्रदानस्य प्रावधानं कृतवती। यदि कश्चित् रोजगाराधारितम् उद्योगं स्थापयेत् तर्हि श्रमिकाणां वेतनाय पञ्चसहस्ररूप्यकपर्यन्तं साहाय्यं दत्तं भवति। राज्ये द्वात्रिंशल्लक्षपर्यन्तं कृषकाः नवतिशतांशानुदानेन सोलर पम्पः लभन्ते। कृषकानां विद्युत्बिलभारेण अस्थायीकनेक्शनेन च मुक्तिर्भवति। षष्टिसहस्ररूप्यकमूल्ये पम्पे त्रिपञ्चाशत्सहस्ररूप्यकानाम् अनुदानं दत्तं भवति। राज्यसरकारा समग्ररूपेण त्रिंशतिसहस्रकरोडपर्यन्तम् अनुदानं ददाति।

सतना सांसदः गणेश सिंहः उक्तवन्तः यत् विंध्यप्रदेशे सतना जी एस टी संग्रहणे अग्रणी जिलाभूतम् अस्ति। मुख्यमंत्री डॉ यादवस्य कार्यकाले मध्यप्रदेशे त्रिंशतिलाखकरोडाधिकः निवेशः आगतः। सतना नगरे रोजगारव्यापारव्यवसायप्रोत्साहनार्थं एम एस एम ई क्षेत्रस्य क्षेत्रीय उद्योगसम्मेलनस्य आयोजनम् आवश्यकम्। ते उक्तवन्तः यत् सतना ऑटोमोबाइलविक्रयस्य महत्केन्द्रम् अस्ति।

विंध्य चेम्बर् ऑफ् कॉमर्स अध्यक्षः सतीश सुखेजा उक्तवन्तः यत् सतना विंध्यस्य औद्योगिकं पवित्रं च नगरम्। विंध्य व्यापारमेला द्विसंवत्सरान्तराले सन् 2000 तः आरभ्य आयोजितः। एषः मेलायाः द्वादशमः वर्षः। अष्टसु राज्येषु न्यूनातिन्यूनं द्विशतपञ्चाशदधिकानि स्टॉल् स्थापितानि। अत्र रेडीमेड् वस्त्राणि इलेक्ट्रॉनिक् पदार्थाः मोटान्नानि च खाद्यपदार्थानां स्टॉलाः सन्ति। तेन मेले आयोजनार्थं स्थायीभूमेः आवश्यकता व्यापारीहितार्थं व्यापारसंवर्धनबोर्डस्य गठनस्य च आवश्यकीयता प्रदर्शिता। राजधानी भोपालनगरीतुल्यं सतना नगरे ग्लोबल् स्किल् डेवलप्मेण्ट् पार्क् निर्मीयताम् येन युवानः कौशलविकासं प्राप्य रोजगारस्वरोजगारयोः अवसरान् लभेरन्।

कार्यालये नगरीयविकास आवासमन्त्री सतनाजिल्लाप्रभारी कैलाश विजयवर्गीय राज्यमन्त्री श्रीमती प्रतिमा बागरी विधायकः सुरेन्द्रसिंह गहरवार महापौरः योगेश ताम्रकार चेम्बर् महामन्त्री सन्दीप जैन मनोहर अग्रवाल मेला संयोजकौ उमेश हरिओम च सहिताः बहुसंख्ये व्यापारिणो बान्धवाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार