रायपुरम् : मुख्यमंत्री सायो 2026 तमस्य वर्षस्य शासकीयपंचांगं विमोचितम्
रायपुरम् 28 दिसंबरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य रविवासरे राजधानी-रायपुर-स्थिते मुख्यमन्त्रि-निवास-कार्यालये वर्ष २०२६ तस्य शासकीयपंचांगस्य विमोचनं कृतवान्। वर्षं २०२६ राज्यसर्वकारेण ‘महतारी-गौरव-वर्ष’ इति रूपेण आचर्यते। अस्यै एव
मुख्यमंत्री विष्णुदेव साय  वर्ष 2026 के शासकीय कैलेंडर का  विमोचन करते


रायपुरम् 28 दिसंबरमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेवसायः अद्य रविवासरे राजधानी-रायपुर-स्थिते मुख्यमन्त्रि-निवास-कार्यालये वर्ष २०२६ तस्य शासकीयपंचांगस्य विमोचनं कृतवान्। वर्षं २०२६ राज्यसर्वकारेण ‘महतारी-गौरव-वर्ष’ इति रूपेण आचर्यते। अस्यै एव थीम्-आधारितं एतत् पंचांगं सशक्त-समृद्ध-छत्तीसगढस्य संकल्पम् आविष्कुरुते।

केलैण्डरस्य मुख्यपृष्ठे छत्तीसगढस्य पञ्च प्रमुख-शक्तिपीठानि—

मा बमलेश्वरी (डोंगरगढ़), मा महामाया (रतनपुर), मा दन्तेश्वरी (दन्तेवाड़ा), मा चन्द्रहासिनी (चन्द्रपुर), मा कुदरगढ़ी (सूरजपुर) — एतानि पावन-धामानि प्रमुखतया स्थापितानि सन्ति। सह एव प्रधानमन्त्रिणः नरेन्द्र-मोदी मुख्यमन्त्रिणः विष्णु-देव-सायस्य च छायाचित्राणि अपि अंकितानि सन्ति। पृष्ठभूमौ सिरपुर-राजिम-नगरयोः देवालयाः, आदिवासी-संस्कृतिः, मधेश्वर-पर्वतः, चित्रकोट-जलप्रपातस्य च आकर्षक-चित्रात्मक-प्रतिरूपाणि संलग्नानि, ये छत्तीसगढस्य समृद्ध-सांस्कृतिक-प्राकृतिक-धरोहरस्य प्रतीकानि भवन्ति।

अवसरे अस्मिन् मुख्यमन्त्रिणा उक्तं यत्“राज्यसर्वकारस्य कृते मातृ-शक्तेः सम्मानः सशक्तीकरणं च परम-प्राथमिकता अस्ति। यत् ‘महतारी-गौरव-वर्ष’ इति रूपेण आचर्यते तद् वर्षं नारी-मान, सुरक्षा, आर्थिक-स्वावलम्बन-समर्पितम् अस्ति। अस्य भावनायाः आधारतः निर्मितं एतत् शासकीय-केलैण्डरं नारी-सशक्तीकरणस्य, राज्य-प्राथमिकतानां, अस्माकं च उपलब्धीनां सशक्त-प्रतीकं भवति। अस्मिन्न् जन-कल्याणकारी-योजनाः सामाजिक-सरोकाराश्च समाहिताः, ये सशक्त-समृद्ध-छत्तीसगढ-निर्माणे महत्वपूर्णं योगदानं दास्यन्ति।”

पंचांगस्य विविधेषु मासिक-पृष्ठेषु विषयानुसारं योजनाः अभियानाश्च स्थापिताः सन्ति।

जनवरी-मास-पृष्ठे राज्यस्य प्रमुख-शक्तिपीठानां दर्शनं दत्तम्।

फेब्रवरी-मासे राष्ट्रिय-सघन- पल्स्-पोलियो-अभियानम् दर्शितम्।

मार्च-मासः महतारी-वन्दन-योजना-समर्पितः।

एप्रिल्-मासे मुख्यमन्त्रि-कन्या-विवाह-योजना,

मे-मासे तेन्दूपत्त्र-संग्रहणं चरण-पादुका-योजना च,

जून्-मासे बेटी-बचाओ–बेटी-पढ़ाओ-अभियानम् प्रमुखतया निरूपितम्।

जुलाई-मासे महिला-मुखियानाम्नि पी-डी-एस् राशन्-कार्ड्-व्यवस्था प्रदर्शिता।

अगस्ते रक्षाबन्धन-उत्सवः,

सितम्बरे दीदी ई-रिक्शा-सहायता-योजना,

अक्टोबरि शौर्य-सम्बन्धित-सम्मान-प्रसंगः स्थाने स्थापितः।

नवम्बर-मासः “सेवा एव संकल्पः” इत्यस्य भावेन प्रस्तुतः,

दिसम्बर-मासः नारी-सशक्तीकरणस्य प्रतीकरूपेण दर्शितः।

शासकीय-केलैण्डर-२०२६ इत्यस्य विमोचनावसरे उपमुख्यमन्त्री विजय-शर्मा, मन्त्रिमण्डल-सदस्यः राजेश-अग्रवालः, जनसंपर्क-सचिवः रोहित-यादवः, मुख्यमन्त्रिणः सचिवः राहुल-भगतः, आयुक्तः जनसंपर्क-रवि-मित्तलः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार