Enter your Email Address to subscribe to our newsletters



- परम्परावीथी जनानां मुखकान्तिः, दुष्प्रचारकाणां च कृते प्रत्युत्तरम् - मुख्यमन्त्री
गोरखपुरम्, २८ दिसम्बरमासः (हि.स.)। मुख्यमंत्री योगी-आदित्यनाथः अवदत् यत् धर्मशाला-विपणात् पाण्डेयहाता-पर्यन्तं निर्मीयमाणा परम्परावीथी (विरासत-गलियारा) नगर-विकास-योजनायाः आदर्शम् उदाहरणं भविष्यति। परम्परावीथेः प्रगतिः तत्र निवसमानानां जनानां मुखेषु कान्तित्वेन दृश्यते। जनानां मुखेषु या कान्तिः प्रसन्नता च दृश्यते, सा दुष्प्रचारकान् प्रति सशक्तं प्रत्युत्तरम् इति सः उक्तवान्।
मुख्यमंत्री योगी एतानि वचनानि ५५५.५६ कोटि-रूप्यकाणां व्ययेन ३.५० कि.मी. दीर्घतायां धर्मशालाविपणात् पाण्डेयहाता-पर्यन्तं निर्मीयमाणायाः मार्ग-विस्तार-परियोजनायाः ‘परम्परावीथेः’ निरीक्षणानन्तरं पत्रकारैः सह संवादेऽवदत्। रविवासरस्य सायं सः परम्परावीथेः अन्तर्गतं पाण्डेयहाता, नखास-चतुष्पथस्य समीपे, तथा अलीनगरम् इत्यत्र स्थित्वा निर्माण-प्रगतिम् अवलोकितवान्। अस्मिन् अवसरे सः रेखाङ्कित-मानचित्रं (ड्रॉइंग मैप्) तथा विन्यासम् (ले-आउट्) अपि दृष्ट्वा आवश्यकान् निर्देशान् अददात्।
मुख्यमन्त्रिणे निवेदितं यत् २.२० कि.मी. पर्यन्तं निर्माण-कार्यं सम्पन्नं, तथा १.३० कि.मी. दीर्घतायां कार्यम् अवशिष्टम् अस्ति। एतस्मिन् सन्दर्भे मुख्यमन्त्रिणा निर्माण-कार्यस्य शीघ्रीकरणे तथा गुणवत्तायां विशेष-बलप्रदाने लोकनिर्माण-विभागस्य अधिकारिणः निर्देशिताः। सः सङ्केतितवान् यत् अस्मिन् कार्ये केनापि प्रकारेण प्रमादः अक्षम्यः भविष्यति। यथासमयं कार्यस्य असम्पूर्णता अपि प्रमादत्वेन गण्यते इति सः अवदत्। मार्गे पथदीपानां (स्ट्रीट्-लाइट्) व्यवस्था करणीयेत्यपि निर्देशः दत्तः, तथा विद्युत्तारकाणां भूमिगत-स्थापनम् (अण्डरग्राउण्ड्) करणीयम् इति उक्तम्। मुख्यमन्त्रिणा उक्तं यत् कुत्रापि जल-सञ्चयस्य समस्या न भवेदिति विशेषतया ध्यानं दातव्यम्। अपि च नालिकासु समतल-शिलाः (स्लैब्) स्थापनीयाः, येन ताः पदचारि-पथरूपेण (फुटपाथ्) उपयोग्याः स्युः।
मुख्यमन्त्रिणा बन्धु-सिंह-वाणिज्यिक-भवनस्य (कमर्शियल-काम्प्लेक्स) बहुतलवाहनस्थगनयोजनायाश्च (मल्टिलेवल्-पार्किङ्) अपि निरीक्षणं कृतम्
परम्परावीथेः निरीक्षणकाले मुख्यमन्त्री योगी घण्टाघरक्षेत्रे प्रायः २८ कोटि-रूप्यकाणां व्ययेन निर्मीयमाणस्य बन्धु-सिंह-वाणिज्यिकभवनस्य बहुतलवाहनस्थगनयोजनायाश्चापि निरीक्षणं कृतवान्। सः तयोः विन्यासम् (ले-आउट्) तथा मानचित्रम् अवलोक्य निर्मितेषु सर्वेषु तलेषु भ्रमणं कृत्वा निर्माण-कार्यं दृष्टवान्। अस्मिन् अवसरे सः अधिकारिणः निर्देशितवान् यत् अत्र अमरवीरस्य बन्धुसिंहस्य प्रतिमायाः स्थापनेऽपि स्थानं सुनिश्चितं क्रियताम्। पूर्वं यानि सांस्कृतिक-कार्यक्रमाणि प्रचलन्ति स्म, तेषु काचिदपि बाधा न आगच्छेदित्यस्यापि व्यवस्था भवेत् इत्यपि सः उक्तवान्। मुख्यमन्त्रिणा योगिना वाणिज्यिकभवनस्य बहुतलवाहनस्थगनस्थानस्य निर्माणे शीघ्रताम् आनीय निर्धारित-समयसीमायां कार्यसमाप्तेः निर्देशाः दत्ताः।
हिन्दुस्थान समाचार / अंशु गुप्ता