दुमकाजनपदे ‘पर्पल्-फेयर्’ इत्यस्यायोजने प्रतिभावन्तः दिव्याङ्गजनाः सम्मानिताः
- दिव्याङ्गजनाः कस्मादपि न्यूनाः न सन्ति- सांसदः दुमका, २८ दिसम्बरमासः (हि.स.)। राज्यस्य तृतीयः जिलास्तरीयः ‘पर्पल्-फेयर्’ कार्यक्रमः रविवासरे कन्वेन्शन्-केन्द्रे, दुमकाजनपदे सफलतया आयोजितः अभवत्। एतदायोजनं दिव्याङ्गजन-सशक्तिकरण-विभागः, सामाजिक-न्
दिव्यांगजनों को सम्मानित करते विधायक


- दिव्याङ्गजनाः कस्मादपि न्यूनाः न सन्ति- सांसदः

दुमका, २८ दिसम्बरमासः (हि.स.)। राज्यस्य तृतीयः जिलास्तरीयः ‘पर्पल्-फेयर्’ कार्यक्रमः रविवासरे कन्वेन्शन्-केन्द्रे, दुमकाजनपदे सफलतया आयोजितः अभवत्। एतदायोजनं दिव्याङ्गजन-सशक्तिकरण-विभागः, सामाजिक-न्याय-अधिकारिता-मन्त्रालयः, भारत-सर्वकारः, समेकित-क्षेत्रीय-कौशल-विकास-पुनर्वास-दिव्याङ्गजन-सशक्तिकरण-केन्द्रम् (सी.आर.सी.), राञ्ची, तथा दुमका-जनपद-प्रशासनम् इत्येतासां संस्थानां संयुक्ततया आयोजितः। कार्यक्रमस्य विधिवदुद्घाटनं सांसदः नलिनसोरेनेन सह अन्यैः अतिथिभिश्च दीप-प्रज्वालनेन कृतम्। अस्मिन् अवसरे अतिथयः दिव्याङ्गजनानां सक्रिय-सहभागितां तथा तेषां क्षमतानां प्रशंसां कृत्वा भविष्येऽपि एतादृशानां समावेशी-आयोजनानां निरन्तर-प्रोत्साहनं करिष्यन्तीति आश्वासनं प्रदत्तवन्तः। अस्मिन् अवसरे सांसदः अवदत् यत् ‘पर्पल्-फेयर्’ सदृशाः कार्यक्रमाः दिव्याङ्गजनानां प्रतिभां क्षमतां च समाजस्य सम्मुखं प्रस्तोतुम् एकं सशक्तं मञ्चं प्रददति। सः अवदत्— दिव्याङ्गजनाः कस्मादपि न्यूनाः न सन्ति, केवलं तेषां कृते सम-अवसरः तथा उचितः मञ्चः उपलब्धः कर्तव्यः। सः भविष्येऽपि एतादृशानां समावेशी-कार्यक्रमाणां निरन्तर-समर्थनस्य प्रतिबद्धतां व्यक्तवान्।

शिकारीपाड़ाविधानक्षेत्रस्य विधायकः आलोककुमारसोरेनः अवदत् यत् दिव्याङ्गजनानाम् अधिकाररक्षणम्, सुलभतायाः सुनिश्चितिः, तथा तेषां समाजस्य मुख्यधारया सह संयोजनम्- एताः राज्य-सर्वकारस्य प्रमुखाः प्राथमिकताः सन्ति। सः अवदत् यत् ‘पर्पल्-फेयर्’ सदृशानि आयोजनानि दिव्याङ्गतायाः विषये समाजे सकारात्मक-दृष्टिकोणस्य विकासयन्ति तथा दिव्याङ्गजन-सशक्तिकरणस्य दिशि महत्त्वपूर्णाः प्रयत्नाः क्रियन्ते। कार्यक्रमे जरमुंडीविधानक्षेत्रस्य विधायकः देवेन्द्रकुँवरः, राज्यनिःशक्तता-आयुक्तः अभयनन्दन-अम्बष्टः, डीडीसी अनिकेतः सचानः, तथा जनपद-समाज-कल्याण-पदाधिकारिणी अञ्जु-कुमारी इत्यादयः अपि कार्यक्रमं सम्बोधितवन्तः। कार्यक्रमावसरे ५० दिव्याङ्ग-कलाकारैः मनोरञ्जकाः सांस्कृतिक-प्रस्तुतयः प्रस्तुताः, यासु नृत्यम्, सङ्गीतम्, कविता-पाठः च अन्तर्भूताः आसन् सहैव च दिव्याङ्गजनैः निर्मितानां हस्तशिल्पानां कलाकृतीनाञ्च प्रदर्शिनी अपि आयोजिताभवत्, येन तेषां रचनात्मक-कौशलस्य प्रभावात्मकं प्रदर्शनमभवत्। एतदतिरिच्य सर्वकारी-असर्वकारी-संस्थाभिः रोजगार-शिक्षा-प्रशिक्षण-पुनर्वासेन च सम्बद्धां सूचनां प्रदातुम् अष्ट (८) वितानानि (स्टाल) स्थापितानि।

अस्मिन् अवसरे सांसदः नलिनसोरेनेन सह अन्यैः अतिथिभिः सङ्केतरूपेण दश (१०) दिव्याङ्गजनेभ्यः तथा वृद्ध-लाभार्थिभ्यः सहायकोपकरणानि वितरितानि। एतदतिरिच्य अनेकानां दिव्याङ्गजनानां वृद्धजनानां च एडिप् तथा वयोश्री-योजनायाः अन्तर्गतं मूल्याङ्कनमपि कृतम्। समेकितक्षेत्रीयकौशलविकासपुनर्वास-एवं-दिव्याङ्गजनसशक्तिकरणकेन्द्रम्, राञ्ची इत्यस्य निदेशकः सूर्यमणिप्रसादः अवदत् यत् कार्यक्रमस्थलं दिव्याङ्गजनानामावश्यकतानुसारं पूर्णतया सुलभं निर्मितमासीत्। मञ्चं यावत् प्राप्तुं रैम्प, बाधा-रहित-शौचालयाः, तथा अन्याः आवश्यकाः सुविधाः सम्यक् रूपेण व्यवस्थिताः आसन्, येन सहभागिनः सौकर्येण कार्यक्रमे सम्मिलिताः अभवन्। सः अवदत् यत् सी.आर.सी., राञ्ची दिव्याङ्गजनानां कौशल-विकासे, पुनर्वासे, तथा स्वावलम्बने निरन्तरं प्रयत्नशीलः अस्ति, तथा भविष्येऽपि एतादृशानां समावेशी-आयोजनानां माध्यमेन दिव्याङ्गजनानां समाजस्य मुख्यधारया सह संयोजनाय सक्रियां भूमिकां निर्वहिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता