Enter your Email Address to subscribe to our newsletters

धर्मशाला, 28 दिसंबरमासः (हि.स.)।
काङ्गडा-वैली-कार्निवाल इत्यस्य पञ्चमे दिने रविवासरप्रभाते धर्मशालायां सायकिल्-यात्रायाः शुभारम्भः अभवत्। अस्मिन् अवसरे धर्मशाला-नगर-निगमस्य महापौरेण नीनुर्मा शर्मणा मुख्यातिथिरूपेण उपस्थितयाद्विचक्रिकायात्रां ध्वजं दर्शयित्वा प्रेषिता। अस्मिन् यात्रायां बालकाद् आरभ्य सर्वेषां आयुवर्गाणां जनाः सहभागिनः सन्ति।
अस्मिन् समये पूर्वमहापौरः देविन्द्रजग्गी, उपमहापौरः तजेन्द्रकौर्, पार्षदः अनुरागः, काङ्गडायाः उपायुक्तः हेमराजबैरवा, काङ्गडा-जनपदस्य पुलिस-अधिकारी अशोकरत्नः, नगरनिगम-आयुक्तः इक्बाल्जफरः, अतिरिक्तोपायुक्तः विनायकुमारः, एस्.डी.एम् मोहितरत्नः इत्येवं बहवः गण्यमानव्यक्तयः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार