सर्वे परिवाराः सहकारितया युक्त्वा आत्मनिर्भरास्स्युः - राज्यपालः
-देहरादूने सहकारिता मेलापकस्य समापनम्-त्रिलक्षं कृषकाः अकुर्वन् सहभागिताम् देहरादूनम्, 28 दिसंबरमासः (हि.स.)। राज्यपालः लेफ्टिनेन्ट् जनरल् सेवानीवृत्तो गुरमीतसिंहः नामकः रविवासरे अन्ताराष्ट्रियसहकारितावर्षस्य २०२५ अवसरस्य निमित्तं देहरादूनस्थि
राज्यपाल लेफ्टिनेंट जनरल गुरमीत सिंह (से.नि.) सहकारिता मेले में चेक प्रदान करते।


-देहरादूने सहकारिता मेलापकस्य समापनम्-त्रिलक्षं कृषकाः अकुर्वन् सहभागिताम्

देहरादूनम्, 28 दिसंबरमासः (हि.स.)।

राज्यपालः लेफ्टिनेन्ट् जनरल् सेवानीवृत्तो गुरमीतसिंहः नामकः रविवासरे अन्ताराष्ट्रियसहकारितावर्षस्य २०२५ अवसरस्य निमित्तं देहरादूनस्थिते रेंजर्स् ग्राउण्ड् इत्यत्र आयोजिते सहकारितामेलापके उपस्थितं जनसमूहं संबोधित्य अवदत् यत् प्रत्येकस्मिन् ग्रामे सशक्ता सहकारीसमिति निर्मीयताम् तथा सर्वे परिवाराः सहकारितायाः संयोगेन आत्मनिर्भराः भवन्तु।

राज्यपालेन सहकारितामेलापकस्य समापनसमये मेलस्थाने स्थापितानां विविधानां स्टालानां अवलोकनं कृतम्। तदनन्तरं सभां सम्बोध्य सः प्रत्येकग्रामे सशक्तसहकारीसमितीनिर्माणस्य, सर्वेषां परिवाराणां सहकारितायां संयोजनस्य, आत्मनिर्भरत्वस्य च आह्वानं कृतवान्।

राज्यपालः अवदत् यत् सहकारिता केवलं उत्पादनवितरणयोः सीमितं नास्ति, अपितु दरिद्रतानिवारणं, लैंगिकसमता, सततजीविका, पर्यावरणसंरक्षणं च इति सप्तदश सततविकासलक्ष्येषु साकार्यकरणे महत्त्वपूर्णां भूमिकां वहति। उत्तराखण्डराज्ये स्त्रीणां कृते त्रिंशत्त्रयांशारक्षणस्य कार्यान्वयनम्, महिला स्वसाहाय्यसमूहानां च उपलब्धयः अपि तेन प्रशंसिताः।

ते अवदन् यत् सहकारितायाः मूलोद्देशः अहं इत्यस्मात् वयं इत्यस्य भावनां वर्धयितुमेव। भारतदेशे सहकारिता नूतना धारणा न, अपितु अस्माकं जीवनदर्शनस्य अविभाज्यांगा आसीत् इति अपि तेन उक्तम्। ग्रामसभा, पंचायत्, तडागनिर्माणम्, देवालयविद्यालयनिर्माणादयः सामूहिकाः क्रियाः तस्यैव दृष्टान्ताः। सहकारिता केवलं उत्पादनवितरणयोः सीमिता न, अपितु दरिद्रतानिवारणम्, लैंगिकसमता, सततजीविका, खाद्यसुरक्षा, पर्यावरणसंरक्षणम् इत्येवं सप्तदश सततविकासलक्ष्येषु सहकारीसमितीनां महती भूमिका अस्ति इति सः पुनरुक्तवान्।

राज्यपालः प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्वाधीनसहकारितामन्त्रालयस्य सृजनसंम्बद्धां दूरदर्शिताम् अपि प्रशंसन् अवदत् यत् उत्तराखण्डराज्यमेव देशे एकं राज्यं यत् सहकारीसमितीषु स्त्रीणां कृते त्रिंशत्त्रयांशारक्षणं कार्यान्वितवान्। महिला स्वसाहाय्यसमूहाः केवलं परिवारस्य आर्थिकमेरुदण्डा न, अपि तु उद्यमितायामपि नूतनानि शिखराणि स्पृशन्ति। ते अपि अवदन् यत् उत्तराखण्डस्य सहकारीसमितयः सेना आई टी बी पी अन्यैश्च अर्धसैनिकबलैः सह खाद्यान्नं दुग्धं अन्याश्च आवश्यकवस्तूनि आपयन्ति।

अस्मिन् अवसरि सहकारितामन्त्री डा. धनसिंहरावतः अवदत् यत् अन्ताराष्ट्रियसहकारितावर्षस्य २०२५ अन्तर्गतम् अद्यावधि प्रदेशे एकादश मेलापकाः आयोजिताः, यत्र त्रिलक्षाधिककृषकाणां सहभागिता अभवत्। तेन उक्तं यत् प्रदेशस्य विविधाभ्यः सहकारीसमितीभ्यः अद्यावत् त्रिंशलक्षाधिकाः कृषकाः संयोजिताः सन्ति तथा एतां संख्यां पञ्चाशल्लक्षाधिकां कर्तुमेव शासनस्य लक्ष्यं वर्तते।

कार्यक्रमे सहकारितानिबंधकः मेहरबानसिंहबिष्टः सह सहकारिताविभागस्य अधिकारिणः, कर्मचारिणः सहकारीसमितीनां प्रतिनिधयः चापि उपस्थिताः आसन्।

हिन्दुस्थान समाचार