Enter your Email Address to subscribe to our newsletters

कानपुरम्, 28 दिसंबरमासः (हि.स.)।अटलजेः प्राथमिकासु सुशासनम् अन्त्योदयश्च स्तः। प्रधानमन्त्रिणः नरेन्द्रमोदिनो नेतृत्वेन केन्द्रीयसरकारापि तस्य अनुगमनं करोति। प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य नेतृत्वे अद्य भारतं केवलं महाशक्तिरेव न भवति, अपि तु विश्वगुरुर्भवितुं दिशि अग्रे प्रसरति। अटलजी भारतं परमाणुशक्तिसम्पन्नराष्ट्रं कर्तुं यत् स्वप्नं ददर्श, तत् साकारितवन्तः। कार्गिलयुद्धे स्वदृढइच्छाशक्त्या जगतः सम्मुखे एतद् अवदत् यत् पाकिस्तान् नाम देशः आतङ्कवादीदेशः अस्ति।
एताः वाचः रविवासरे कानपुरनगरे विधानसभाध्यक्षेन सतीशमहनाख्येन उक्ताः। भाजपायाः दक्षिणक्षेत्रे अटलजन्मशताब्दीवर्षसमारोहस्य अन्तर्गते आयोजिते महाराजपुरविधानसभाक्षेत्रस्थे खत्रीधर्मशालायां सम्पन्ने अटलस्मृतिसम्मेलने उत्तरप्रदेशविधानसभाध्यक्षः सतीशमहाना अवदत् यत् भारतरत्नपूर्वप्रधानमन्त्री अटलबिहारीवाजपेयी सदा अन्तिमपङ्क्तिस्थितान् जनान् प्रति लाभप्रदानस्य चिन्ताम् अकुर्वन्। संचारक्रान्त्याः नूतनः अध्यायः तस्य एव कार्यकाले आरब्धः, अद्य च कोटिशः देशवासिनः तस्याः प्रत्यक्षं लाभं प्राप्नुवन्ति। भ्रष्टाचारभेदभावयोः विना प्रत्यक्षलाभांतरणेन लोकाः साक्षाल्लाभं प्राप्नुवन्ति। देशे संचारक्रान्त्या एव सकारात्मकपरिवर्तनानि समजातानि।
ते अवदन् यत् भारतं कंचन प्रति प्रथमतया युद्धं न करोति। अद्य तस्यैव पदचिह्नानि अनुसृत्य सरकार पूर्वोत्तरराज्यानि विकासितानि कृत्वा मुख्यधारया सह संयोजयितुं कार्यं करोति। तेनोक्तं यत् अटलजिः सदैव राष्ट्रं सर्वोपरि स्थितं मन्यन्ते स्म। सर्वेषां धर्माणां उपरि राष्ट्रधर्मः अस्ति। स्वपुराणानि संस्मृत्य अवदत् यत् पूर्वप्रधानमन्त्रिणः श्रद्धेय अटलबिहारीवाजपेयिनः कानपुरवाससमये मम तेषां चालकभवनस्य अपि सौभाग्यं प्राप्तम्।
भाजपादक्षिणजिलाध्यक्षः शिवरामसिंह अवदत् यत् अटलजी विचारधारा-मूल्याधारितराजनीतेः प्रति स्वाम् अटूटप्रतिबद्धतां दर्शयित्वा विकासस्य सुशासनस्य च नूतनयुगे आधारशिलां स्थापितवन्तः। प्रधानमन्त्रि नरेन्द्रमोदी तस्य एतत् स्वप्नं साकारयन्ति। भारतं विकसितराष्ट्रं कर्तुं वयं सर्वे मिलित्वा कार्यं कर्तुम् संकल्पं गृह्णीयाम यद् एतदेव श्रद्धेय अटलजये प्रति सत्यश्रद्धाञ्जलिः भविष्यति।
कार्यक्रमे अनीतापर्मारो विवेकशुक्लानन्दुः संजयतिवारी सुमित्कश्यपः लक्ष्मीनिषाद् बीडी रायः विपिनशर्मा इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार