प्रतिभाः क्षेत्राणां संसाधनानां वा अधीनाः न भवन्ति : जयरामः ठाकुरः
धर्मशाला, 29 दिसम्बरमासः (हि.स.)।हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री तथा विपक्षनेता जयरामठाकुरः सोमवासरे काङ्गड़ा-जनपदे देहरा-स्थिते एकस्मिन् निजविद्यालये आयोजिते वार्षिकोत्सवकार्यक्रमे सम्मिलितः सन् विद्यार्थिनाम्, अध्यापकानां च अभिभावकानाम् उत्साहव
देहरा में स्कूल के वार्षिकोत्सव का शुभारंभ करते हुए नेता प्रतिपक्ष।


धर्मशाला, 29 दिसम्बरमासः (हि.स.)।हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री तथा विपक्षनेता जयरामठाकुरः सोमवासरे काङ्गड़ा-जनपदे देहरा-स्थिते एकस्मिन् निजविद्यालये आयोजिते वार्षिकोत्सवकार्यक्रमे सम्मिलितः सन् विद्यार्थिनाम्, अध्यापकानां च अभिभावकानाम् उत्साहवर्धनं कृतवान्। अस्मिन् कार्यक्रमे विद्यालयस्य लघुबालैः प्रस्तुताः वर्णरम्याः सांस्कृतिकप्रस्तुतयः समग्रं वातावरणं हर्षेण ऊर्जया च पूरितवन्त्यः। बालानाम् उत्कृष्टाः प्रस्तुतयः प्रेक्षकाणां मनांसि आकृष्टवन्त्यः, तथा तेषां प्रतिभा, आत्मविश्वासः, अनुशासनं बौद्धिकीक्षमता च सर्वेषां पुरतः प्रकटिता।

जयरामठाकुरःअवदत्यत् बालकेष्वेव देशस्य प्रदेशस्य च भविष्यं निहितम् अस्ति। अद्य मञ्चे दृश्यन्ते याः प्रतिभाः, ताः एव आगामिकाले समाजं राष्ट्रं च नूतनदिशिं नेतुं कार्यं करिष्यन्ति। सः पुनः अवदत् यत् प्रतिभा न कस्यचित् नगरस्य सुविधायाः वा अधीना भवति, अपि तु ग्राम्यप्रदेशेष्वपि नैकाः प्रतिभाः सन्ति, याभ्यः सम्यक् मार्गदर्शनम् अवसरश्च लभ्येत। अद्य बालानां कार्यक्रमः मन्त्रमुग्धकरः आसीत्। स्वस्य प्रेरणादायकसम्बोधने सः बालानां समक्षं जीवनसम्बद्धाः अनेकाश्च प्रेरणाप्रदाः कथाः अकथयत्, परिश्रमस्य, अनुशासनस्य, संस्काराणाम् आत्मविश्वासस्य च महत्त्वं प्रकाशितवान्। विद्यार्थिभ्यः आह्वानं कृतवान् यत् ते लक्ष्यं निर्धार्य निरन्तरं परिश्रमं कुर्वन्तु, यतः कठिनताभिः संघर्षं कृत्वैव सफलता प्राप्यते।

कार्यक्रमावसरे आयोजिते पारितोषिकवितरणसमारोहे जयरामठाकुरः मेधाविनः विद्यार्थिनः सम्मानितवान्, तेषाम् उज्ज्वलभविष्याय शुभाशयाश्च अयच्छत्।

अस्मिन् अवसरे देहरा-जनपदस्य पूर्वजसवाँ–परगपुर-विधायकः विक्रमसिंहः, देहरायाः पूर्वविधायकः होशियारसिंहः, प्रबन्धनिदेशकः प्रवीणराजपूतः, प्राचार्यः गुञ्जनपरमारः, भारतीयजनतापक्षस्य प्रदेश-पत्रकार-सह-प्रभारी सञ्जीवशर्माविश्वचक्षुः च, मण्डलाध्यक्षः अविनाशधीमानः, विद्यालयपरिवारः, अभिभावकगणः, क्षेत्रस्य च अनेके गणमान्यनागरिकाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता