Enter your Email Address to subscribe to our newsletters

सिरसा, 29 दिसम्बरमासः (हि. स.)।देशस्य राष्ट्रपतिना सम्मानिता पैरा-एथलीट-क्रीडाङ्गना ज्योतिः सोमवासरे पी.एम.श्रीजवाहरनवोदय विद्यालये ओढां–सिरसानगरे भव्यस्वागतमभवत्।
सम्मानसमारोहे भाषमाणः विद्यालयस्य प्राचार्यः ललितकाल्डा अवदत्—“मम गौरवं भवति यत् ज्योतिः अस्माकं विद्यालयस्य छात्रा अस्ति। दिव्याङ्गत्वेऽपि सा आत्मविश्वासेन उत्कृष्टं क्रीडाप्रदर्शनं कृत्वा एतत् स्थानं प्राप्तवती।”
क्रीडाक्षेत्रे राष्ट्रिय-अन्ताराष्ट्रियस्तरे उत्तमं प्रदर्शनं कृत्वा अनेकानि पदकानि प्राप्तवती ज्योतिः, गत 26 दिसम्बरमासे वीर-बाल-दिवसे राष्ट्रपतिः द्रौपदी मुर्मूमहोदयया सम्मानिता इयम्। तथैव प्रधानमन्त्रीनरेन्द्रमोदी अपि ज्योत्या सह संवादं कृत्वा तस्याः उत्साहवर्धनं कृतवान्। ज्योतिः स्वप्रतिभायाः प्रदर्शनं कृत्वा देशस्य, प्रदेशस्य, नगरस्य तथा नवोदय-विद्यालयस्य च गौरवं वर्धितवती। सा सर्वेषां तेषां बालकानां प्रेरणास्रोतः अस्ति, ये दिव्याङ्गत्वात् आत्मविश्वासं परित्यजन्ति। अस्मिन् अवसरे विद्यालयस्य कर्मचारिणः— गुरप्रीतकौरः, विनोदकुमारः, अमृतलालः कम्बोजः, मंजीतसिंहः, वृजेन्द्रसिंहः, छोटूरामः- स्मृतिचिह्नं दत्त्वा ज्योतिं सम्मानितवन्तः।
विद्यालयप्रबन्धनपक्षतः ज्योतिः, तस्याः पिता विजयपालः, माता शकुन्तलादेवी च स्मृतिचिह्नैः उपहारैश्च सम्मानिताः। उपप्राचार्यः नवीनलाम्बा अवदत्—“ज्योतिः एतत् सिद्धं कृतवती यत् यदि मनसि दृढः संकल्पः भवति, तर्हि किमपि असम्भवं नास्ति।”सः ज्योत्या पितरौ अपि अभिनन्द्य अवदत् यत् कस्यापि क्षेत्रस्य सफलतायां प्रथमं माता-पितॄणां सहयोगः अत्यावश्यकः भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता