मुख्यमन्त्री डॉ. यादवेन जनजातीय-गौरवाय भीमा-नायकाय बलिदान-दिवसे नमनं कृतम्
भाेपालम्, 29 दिसम्बरमासः (हि.स.)। ब्रिटिश-शासनस्य विरुद्धं शौर्येण प्रतिरोधं कृतवान् महान् योद्धा, निमाड़प्रदेशस्य “रॉबिनहूड” इति विख्यातः भीमा-नायकस्य अद्य सोमवासरे पुण्यतिथिः अस्ति। प्रतिवर्षं 29 दिसम्बर-दिनाङ्के भीमा-नायकस्य पुण्यतिथिः “बलिदान-
मुख्यमंत्री डॉ. यादव ने जनजातीय गौरव भीमा नायक को बलिदान दिवस पर किया नमन


भाेपालम्, 29 दिसम्बरमासः (हि.स.)। ब्रिटिश-शासनस्य विरुद्धं शौर्येण प्रतिरोधं कृतवान् महान् योद्धा, निमाड़प्रदेशस्य “रॉबिनहूड” इति विख्यातः भीमा-नायकस्य अद्य सोमवासरे पुण्यतिथिः अस्ति। प्रतिवर्षं 29 दिसम्बर-दिनाङ्के भीमा-नायकस्य पुण्यतिथिः “बलिदान-दिवस” रूपेण आचर्यते। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहनयादवः तं स्मृत्वा विनम्रां श्रद्धाञ्जलिं समर्पितवान्।

मुख्यमन्त्री डॉ. यादवः सामाजिक-सञ्चार-माध्यमे ‘एक्स्’ इत्यस्मिन् पटले लिखितवान्। तत्र सः अलिखत् यत् “जनजातीय-गौरवः, मातृभारत्याः सपूतः, स्वतन्त्रता-संग्राम-सेनानी, श्रद्धेयः भीमा-नायकस्य बलिदान-दिवसे तस्य चरणयोः प्रणामं करोमि। मातृभूमेः स्वतन्त्रतार्थं राष्ट्रिय-चेतनायाः जागरणाय 1857-संग्रामात् आरभ्य पोर्ट्-ब्लेयर-क्षेत्रे बलिदान-पर्यन्तं यत् तेन योगदानं कृतं, तस्मात् देशः सदैव तस्य ऋणी भविष्यति।”

---------------

हिन्दुस्थान समाचार