Enter your Email Address to subscribe to our newsletters



कोरबाजनपदः, 29 दिसम्बरमासः (हि. स.)। वेदान्त-समूहस्य निर्माणी भारत-अल्युमिनियम-कम्पनी-लिमिटेड् (बालको) कृषक-दिवसस्यावसरे जनपदस्य बेला-सोनगुढ़ा-ग्रामयोः कृषक-मेलापकः–2025 इत्यस्य आयोजनमभवत्। अस्मिन् मेलापके चत्वारिंशत् ग्रामेभ्यः आगताः पञ्चाशताधिकसप्तशतं कृषकाः भागं गृहीतवन्तः। कार्यक्रमे तन्त्रज्ञाः, शासकीय-अधिकारिणः, धनागार-प्रतिनिधयः तथा कृषि-उद्यमिनः अपि सम्मिलिताः आसन्।
एषः मेलापकः कृषकेभ्यः आधुनिक-कृषेः तथा सतत-आजीविकायाः विषये सूचना-विनिमयस्य महत्त्वपूर्णः कार्यक्रमः अभवत्।
बालको इति संस्थया एतदायोजनं बायफ, सतत-आजीविका-विकास-संस्थानयोः संयुक्ततया कृतम्। मेलापके कृषिः, उद्यानिकी, मत्स्यपालनम्, पशुपालनम् तथा कृषि-बीमा इत्यादीनां विषये आधुनिक-प्रौद्योगिकीनां चर्चाः प्रदर्शनानि च कृतानि।
बालको-सम्बद्धायाः ‘मोर जल मोर माटी’ इत्यस्याः परियोजनायाः अन्तर्गतं कृषकेभ्यः वितरितानां कृषि-उपकरणानां प्रदर्शिनी अपि आयोजिताऽभवत्।
नकटिखार-स्थित-उच्च-प्रौद्योगिकी-नर्सरी-सम्बद्धे वितान-मध्ये गुणवत्तायुक्त-पादपानां ज्ञानं प्रदत्तम्।
कृषक-उत्पादक-सङ्घठनस्य (एफ्.पी.ओ.) वितान-मध्ये कृषकेभ्यः समूहबद्धतया कार्यकरणस्य तथा विपणिना सह सम्बद्धतायाः लाभाः अवगताः। अतिरिक्तं मारुत-ड्रोन्, क्रॉम्प्टन-मोटर, बिड़ला-पाइप, कृषि-उद्यानिकी-विभागयोः वितान-मार्गेण आधुनिक-प्रौद्योगिकी, सिञ्चन-समाधानानि, शासकीय-योजनाः तथा
कृषि-आधारित-स्वरोजगार-अवसराणां विषये सूचना प्रदत्ता। बालको इत्यस्य मुख्य-कार्यकारी-अधिकारी निदेशकश्च राजेश-कुमारः सोमवासरे अवदत् यत् देशस्य खाद्य-सुरक्षायां कृषकाणां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। बालको-संस्थायां वयं केवलं प्रौद्योगिकी-प्रशिक्षणयोः सीमिताः न स्मः, अपि तु कृषकेभ्यः आयस्य नूतनान् अवसरान् प्रदाय तान् आत्मनिर्भरान् कर्तुं प्रयत्नशीलाः स्मः। ‘मोर जल मोर माटी’ इत्येतैः प्रयत्नैः कृषिः, उद्यानिकी तथा पशुपालनं लाभकारी-आजीविकारूपेण प्रवर्धन्ते।
रोगबहारी-ग्रामस्य कृषकः अर्जुन-कंवरः अवदत् यत् बालको इत्यनेन सहयोगेन मम कृषिक्षेत्रे महान्तं परिवर्तनम् अभवत्। प्रशिक्षणेन मया उत्तम-कृषेः पद्धतयः, उत्पादन-वृद्धिः, व्यय-न्यूनता च इत्यादयः आवश्यक-विषयाः अधिगताः। अस्मिन् वर्षे उत्तम-कृषेः स्वीकरणाय अहं सम्मानितोऽपि अभवम्, येन मह्यम् अधिकं शिक्षितुम् अन्यान् कृषकान् च प्रेरयितुं सामर्थ्यं लब्धम्।
‘मोर जल मोर माटी’ परियोजना, जल-प्रबन्धनं, बहुसस्य-कृषिम्, उद्यानिकीं तथा पशुपालनं प्रवर्धते। एषा परियोजना त्रिसहस्र-द्विशत-अधिक-एकर-परिमिते क्षेत्रे अष्ट-सहस्र-अधिकान् कृषकान् प्रति प्रसरिताऽस्ति। अद्यावधि षट्-सहस्र-अधिकैः कृषकैः आधुनिक-कृषि-पद्धतयः अङ्गीकृताः, येन तेषाम् आयः उत्पादनञ्च वर्धितम्। लाभार्थिनां मध्ये प्रायः पञ्चविंशति-प्रतिशतं युवा-कृषकाः सन्ति, यत् दर्शयति यत् आजीविकारूपेण कृषेः स्वीकरणे यूनां रुचिः वर्धमाना अस्ति।
शासकीय-योजनाभिः तथा संस्थागत-सहयोगेन कृषकान् संयोज्य बालको ग्रामीण-आजीविकां सुदृढां करोति तथा छत्तीसगढ-प्रदेशेसतत-कृषि-विकासं प्रवर्धते। एषः प्रयत्नः ज्ञानस्य, नवाचारस्य तथा सहयोगस्य माध्यमेन कृषकानां जीवने सकारात्मक-परिवर्तनं कर्तुं शक्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता