Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 29 दिसम्बरमासः (हि.स.)। माघमासस्य मेलापकावसरे मुख्य-स्नान-पर्वणाम् एकस्मात् दिवसात् पूर्वम् आरभ्य द्वयोः दिवसयोः अनन्तरं यावत् प्रयागराज-रेल्वेस्थानके श्रद्धालूनां यात्रिकाणां च सुरक्षा-सौकर्यार्थं प्रवेश-निर्गमनयोः एकदिशीय-गमन-व्यवस्था प्रवर्तिष्यते। यात्रिक-आश्रयेषु अनारक्षित-पत्रक-कक्षैः, ए.टी.वी.एम्-यन्त्रैः तथा चल-दूरभाषा-पत्रक-व्यवस्थया पत्र्क-वितरण-व्यवस्था भविष्यति।
एतां सूचनां जनसम्पर्काधिकारी अमितकुमारसिंहः सोमवासरे प्रयच्छन् अवदत् यत् स्नान-पर्वसु पौषपूर्णिमायां (03 जनवरीमासः) 02 जनवरीमासस्य 00:00 समयात् 05 जनवरीमासं यावत्, मकरसंक्रान्तौ (15 जनवरीमासः) 14 जनवरीमासात् 20 जनवरीमासं यावत्, मौनी-अमावस्यायाम्(18 जनवरीमासः), बसन्तपञ्चम्यां (23 जनवरीमासः) 22 जनवरीमासात् 25 जनवरीमासं यावत्, माघीपूर्णिमायां (01 फरवरीमासः) 31 जनवरीमासात् 03 फरवरीमासं यावत्, तथा महाशिवरात्रौ (17 फरवरीमासः) 14 फरवरीमासात् 17 फरवरीमासं यावत् एषा व्यवस्था प्रवर्तिष्यते।
प्रयागराज-रेल्वेस्थानकम्
प्रयागराज-रेल्वेस्थानके केवलं लीडर-मार्गतःप्रवेशः दास्यते, तथा सिविल-लाइन्स-दिशि निर्गमनं विधास्यते। अनारक्षित-यात्रिणः दिशानुसारं यात्रिकाश्रयैः माध्यमेन प्रवेशं प्राप्स्यन्ति।
सूबेदारगञ्ज-स्थानकम्
सूबेदारगञ्ज-रेल्वेस्थानके केवलं झलवा-मार्गतः (कौशाम्बी-मार्गः) प्रवेशः दास्यते, तथा जी.टी.-मार्गस्य दिशिनिर्गमनं विधास्यते।
प्रयागराज-छिवकी-रेल्वेस्थानकम्
प्रयागराज-छिवकी-रेल्वेस्थानके केवलंसी.ओ.डी.-मार्गतः प्रवेशः दास्यते, तथा जी.ई.सी.-मार्गस्य दिशिनिर्गमनं विधास्यते।
नैनी-रेल्वेस्थानकम्
नैनी-रेल्वेस्थानके केवलं स्टेशन-मार्गतः (मञ्चः–1) प्रवेशः दास्यते, तथा द्वितीय-प्रवेश-द्वारतः (मञ्चः–4) निर्गमनं विधास्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता