Enter your Email Address to subscribe to our newsletters








– सक्षमस्य गोरखपुर-एककस्य आयोजनम्
गोरखपुरम्, २९ दिसम्बरमासः (हि.स.)। दिव्याङ्गजनानामधिकार-संरक्षणे सशक्तीकरणे च निरन्तरंकार्यरतस्य शीर्ष-राष्ट्रीय-सङ्घनस्य समदृष्टि–क्षमता-विकास–अनुसन्धान-मण्डलस्य (सक्षम) गोरखपुर-जनपदीय-एककस्य आयोजनात् दिव्याङ्ग-हितैषिणःदिव्याङ्गजन-अधिकार-अधिनियमस्य २०१६ राष्ट्रपतिना हस्ताक्षर-प्रदानस्य उपलक्ष्ये राष्ट्रीय-दिव्याङ्गजन-सशक्तीकरण-दिवसःआचरितः। अयंकार्यक्रमः स्पर्श-राजकीय-दृष्टिबाधित-बालिका-इण्टर-महाविद्यालयस्य, सामान्यपरिसरे, गोरखपुरेसम्पन्नः।
कार्यक्रमे मुख्यवक्तृत्वेन सक्षम-गोरक्ष-प्रान्तस्य प्रान्त-सचिवः रमाकान्तः दिव्याङ्गजन-अधिकार-अधिनियमं २०१६ विषये विस्तरेण प्रकाशं दत्तवान्। तेन उक्तं यत् अस्य अधिनियमस्य प्रवर्तनात। दिव्याङ्गजनानां विषये समाजस्य दृष्टिकोणे सकारात्मकः व्यापकश्च परिवर्तनमभवत्। सः अस्य अधिनियमस्य दिव्याङ्ग-अधिकार-संरक्षणस्य दिशायाम् ऐतिहासिकं पदक्षेपम् इति वर्णितवान्।
कार्यक्रमस्य शुभारम्भः सक्षम-संगठनस्य नीतिनियमानुसारं कृतः। सङ्घटनस्य परिचयः, तस्य कार्याणि तथा विस्तार-विवरणं प्रदाय दीपिकया अतिथीनां स्वागतं कृतम्। छात्राभिः सांस्कृतिक-कार्यक्रमेषु रम्याः प्रस्तुतयः प्रदत्ताः, येन सर्वेषामतिथिनां मनांसि आकर्षितानि। वक्तृभिः दिव्याङ्गजन-अधिकार-अधिनियमः २०१६ समाजहिताय अत्यन्तं महत्त्वपूर्णं संशोधनम् इति प्रतिपादितम्। तस्मिन् अवसरे सक्षमस्य वर्तमानकार्यकारिण्याः संगठनात्मक-अनुशासनस्य, नेत्रकुम्भ–२०२५ इत्यस्मिन् उत्कृष्ट-योगदानस्य तथा दिव्याङ्ग-हितैषिणां गतिविधीनां मुक्तकण्ठेन प्रशंसा कृता।
कार्यक्रमाध्यक्षः राजन-श्रीवास्तवः छात्राभ्यः प्रेरणादायकं मार्गदर्शनं प्रदाय आशीर्वचनानि दत्तवान्। अन्ते विद्यालयस्य प्रधानाचार्यः जवाहरः सर्वेषाम् आगन्तुकान् प्रति आभार-प्रकटनं कृतवान्। कार्यक्रमस्य समापनं कल्याण-मन्त्रेण सह कृतम्।
अस्मिन् अवसरे सक्षम-गोरक्ष-प्रान्तस्य कार्यालय-प्रमुखः इन्द्रजीत-ओझा, प्रान्त-धीमहि-प्रकोष्ठ-प्रमुखः डा०प्रमोद-नारायणः, प्रान्त-रोजगार-आयाम-प्रमुखा संगीता-पाण्डेया, जिला-गोरखपुरस्य उपाध्यक्षः राजन-श्रीवास्तवः (कार्यक्रमाध्यक्षः), दीपिका-मिश्रा, डा०मानस-मोहन-पाण्डेयः (राजपत्रित-अधिकारी), विद्यालयस्य प्रधानाचार्यः जवाहरः, अन्येकर्मचारिणः तथा छात्राः च उपस्थिताःआसन्।
हिन्दुस्थान समाचार