Enter your Email Address to subscribe to our newsletters

-सकारात्मकः स्यात् यूनां दृष्टिकोण: योगेन्द्र गिरिः
हरिद्वारम्, 29 दिसंबरमासः (हि.स.)।गायत्रीतीर्थ-शान्तिकुञ्जे आयोजितः त्रिदिवसीयं युव-जागरण-शिबिरम् अद्य सफलतया समापितः। अस्मिन् शिबिरे पुणे महाराष्टराज्यात् आगताः शताधिकाः आईटी-विशेषज्ञाः सहभागीभूत्वा वैचारिक-नैतिक-व्यावहारिक-प्रशिक्षणं प्राप्तवन्तः।समापन-सत्रे शान्तिकुञ्ज-व्यवस्थापकः योगेन्द्रगिरिः सम्बोध्य अवदत् यत् अखिलविश्व-गायत्री-परिवारस्य संस्थापिका माता भगवतीदेवी-शर्मा-आख्यायाः जन्मशताब्दी-वर्षे युवानां भूमिका निर्णायिका अस्ति। सः अवदत् यत् यदि युवा स्वज्ञानं कौशलं तांत्रिक-समर्थ्यं च समाजस्य सकारात्मक-परिवर्तनार्थं प्रयुञ्जते तर्हि युग-निर्माण-मार्गे व्यापकः परिवर्तनः साध्यः। सः यूनः प्रति आह्वानं अकरोत् यत् सकारात्मक-चिन्तनम् अनुशासनं सेवा-भावश्च जीवनस्य अभिन्नांशत्वेन स्वीक्रियन्ताम्।
तस्मात् पूर्वम् अशरण-शरण-श्रीवास्तव-नामाऽभ्यभाषत्—अद्यतनः युव शतांत्रिकरूपेण समर्थः, किन्तु तन्त्रज्ञानस्य मानवीय-मूल्यैः सह संयोजनम् एव युगस्य आवश्यकता। सः आत्म-विकासेन सह समाज-निर्माणे सक्रिय-सहभागितां प्रति बलं दत्तवान्।
जन्मशताब्दी-कार्यालयस्य समन्वयकः श्यामबिहारी-दुबे-नाम्ना लोक-सेविनां कृते दिशाबोधः समय-दानं च युग-धर्मः इति उद्घोष्य तयोः महत्वं विशदीकर्तम्। तत्रैव युवा-प्रकोष्ठस्य समन्वयकौ के पी दुबे तथा डॉ अभय सक्षेना इत्येतौ प्रतिभागिनः प्रति एतत् संकल्पं दत्तवन्तौ यत् शिबिरात् प्राप्ताः प्रेरणाः स्व-व्यक्तिगत-व्यावसायिक-जीवनेषु अपन्य समाज-हिते सक्रिय-भूमिकां निर्वक्ष्यन्ति।
हिन्दुस्थान समाचार