Enter your Email Address to subscribe to our newsletters


अररिया, 29 दिसम्बरमासः (हि. स.)। फारबिसगञ्जनगरे तेरापन्थ-भवनस्य प्राङ्गणे तेरापन्थ-महिला-मण्डलेन कन्या-मण्डलेन च संयुक्ततया आयोजितस्य द्विदिवसीयोत्सवस्य (कार्निवलस्य) सोमवासरे मनोरञ्जककार्यक्रमाणां मध्ये शुभारम्भः कृतः। अस्य शुभारम्भे मुख्य-पार्षदा वीणा-देवी, उप-मुख्य-पार्षदा नूतनभारती, तेरापन्थ-महासभायाः संवाहकः अनूपबोथरा, उपासिका सुधाबोथरा, सभाध्यक्षः महेन्द्रबैदः, सचिवः मनोजभंसाली च इत्येतैः संयुक्तरूपेण सूत्रकर्तनं कृत्वा कार्यक्रमः उद्घाटितः।
अस्मिन् उत्सवे विविधाः आहारवितानम् (फूड-स्टॉला), क्रीडावितानम्, क्रय-विक्रय-वितान् (शॉपिङ्-स्टॉल)च मुख्याकर्षण-केंद्ररूपेण सन्ति, ये नगरस्य प्रसिद्धैः व्यवसायिभिः स्थापितानि सन्ति। उत्सवे चत्वारिंशत् तः अधिकानि वितानानि नियुक्तानि सन्ति। कार्यक्रमे समाजस्य वरिष्ठजनाः तथा विविध-संस्थाभ्यः पदाधिकारिणः अपि उपस्थिताः आसन्। अस्य आयोजनस्य मुख्योद्देश्यं नारी-सशक्तिकरणम् तथा महिलानाम् अग्रसरणाय प्रयत्नः इति निर्दिष्टः। उत्सवः अपराह्णे द्विवादनात् आरभ्य रात्रौ नव-वादनपर्यन्तं प्रवर्तते। उत्सवविषये बालकेषु महिलासु च अतीव उत्साहः दृष्टः।
स्थानीयसभायाः अध्यक्षः महेन्द्रबैदः तथा मन्त्री मनोजभंसाली च कार्यक्रमस्य सफल-उद्घाटनस्य अवसरे महिला-मण्डलम् कन्या-मण्डलञ्च अभिनन्दितवन्तौ, एतच्च नारी-सशक्तिकरणस्य उत्तमा दृष्टान्तः इति अवदताम्। कार्यक्रमे सहभागीभूतान् सर्वान् प्रायोजकान् महिला-मण्डलेन कन्या-मण्डलेन च सम्मानिताः।
उद्घाटनसमये महासभासंवाहकः अनूपबोथरा, उपासिका सुधा-बोथरा, मुख्यपार्षदा वीणा-देवी, उप-मुख्य-पार्षदा नूतन-भारती, सभाध्यक्षः महेन्द्र-बैदः, मन्त्री मनोज-भंसाली, महिला-मण्डल-अध्यक्षा समता-दुग्गड, मन्त्री कल्पना-सेठिया, तेरापन्थ-युवक-परिषदः अध्यक्षः आशीष-गोलछा, मन्त्री पङ्कज-नाहटा, छोटू-बैदः, दीपक-समदरिया, भास्कर-महनोतः, अञ्जु-बैदः, समता-बोथरा, सविता-महनोत, सपना-महनोत, बबिता-डागा, सोनू-पटावरी, ममता-डागा, सोनू-गोलछा, शैलेश-बैदः, पीयूष-डागा, विकास-डागा, जीतू-बोडरः, संजय-सुराना, गौरव-जैनः, आदर्श-गोयलः, निशान्त-गोयलः, पवन-अग्रवालः, कुणाल-केडिया, बछराज-राखेचा, बुलबुल-यादव, अञ्जनी-गौतम, राजकुमार-लढ़ा इत्यादयः बहवः गणमान्याः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता