अयोध्यायां ९.८४ कोटि-रूप्यक-व्ययेन् निर्मीयमानः आधुनिकः ‘नवीन-ममता-राजकीय-मानसिकमन्दितविद्यालयः'
अयोध्या, 03 दिसम्बरमासः (हि.स.)। मानसिकरूपेण विशिष्टबालकानां सुरक्षित-भविष्यं, सशक्तीकरणं च तेषां समग्र-विकासं प्राधान्येन पश्यन्ती योगी-सर्वकारः अधुना अयोध्यायां महद् उपक्रमं कर्तुं प्रवृत्ता अस्ति। जनपदस्य हैरिंग्टनगञ्ज-खण्डस्य ग्राम-पञ्चायत् मु
राजकीय मानसिक मंदित विद्यालय


अयोध्या, 03 दिसम्बरमासः (हि.स.)।

मानसिकरूपेण विशिष्टबालकानां सुरक्षित-भविष्यं, सशक्तीकरणं च तेषां समग्र-विकासं प्राधान्येन पश्यन्ती योगी-सर्वकारः अधुना अयोध्यायां महद् उपक्रमं कर्तुं प्रवृत्ता अस्ति। जनपदस्य हैरिंग्टनगञ्ज-खण्डस्य ग्राम-पञ्चायत् मुकीमपुर-पहाड़पुर-शाहगञ्ज-प्रदेशे नवीन-ममता-राजकीय-मानसिक-मन्दित-विद्यालयस्य निर्माणकार्यं ९ कोटि ८४ लक्ष-रूप्यकाणां व्ययेन् शीघ्रतया प्रवर्तते। एतत् संस्थानं तेषां बालकानां कृते अत्याधुनिक-सुविधानां केन्द्ररूपेण भविष्यति, ये सामान्य-शैक्षिक-संस्थानेषु पर्याप्तं सहयोगं योग्यं च वातावरणं न प्राप्नुवन्ति।

— शिक्षा, आवास, परिचर्या— सर्वं एकस्मिन् स्थाने

दिव्याङ्गजन-सशक्तीकरण-विभागस्य अस्याः महत्त्वाकाङ्क्षायाः परियोजनायाः मुख्योद्देश्यः अस्ति—विशिष्टबालकान् तादृशं वातावरणं दातुं यत्र ते सुरक्षिते, सहजएव सम्मानयुक्ते च स्थले शिक्षाम् अधीयेरन् तथा जीवनोपयोगीनि कौशलानि अपि अवगच्छेयुः। विद्यालय-परिसरे आधुनिक-अध्ययन-कक्षाः, सुशोभित-छात्रालयः, भोजनालयः, प्रशासन-भवनम्, मनोरञ्जन-क्षेत्रम्, काउन्सेलिङ्-सेवा, उपचार-केन्द्रम् इत्यादीनि सर्वाणि विकासाधीनानि सन्ति। एषा संस्था पूर्णतः आवासीयरूपेण भविष्यति—यत्र बालकानां नित्योद्यमात् आरभ्य भोजनम्, आरोग्यसेवा, मानसिक-परामर्श-व्यवस्था च सर्वं सम्यक् उपलब्धं भविष्यति।

— सितम्बर 2025 आरम्भः, मार्च 2027 पर्यन्तं पूर्णतायाः लक्ष्य निर्धारणम्

एतस्य परियोजनायाः कार्यम् सितम्बर् 2025 तिथौ आरब्धम्, मार्च् 2027 पर्यन्तं पूर्णतां नेतुम् लक्ष्यं निर्धारितम्। कार्यदायी-संस्था—उत्तरप्रदेश-राज्यनिर्माणसहकारीसंघ-लिमिटेड्—निर्माणस्य समयोचित-समाप्तये निरन्तरं मॉनिटरिङ् कुर्वन्ती उच्च-गुणवत्ता-मानकानां पालनम् सुनिश्चितयति। स्थलपरि प्रतिदिनं कार्यसमीक्षा क्रियते, यत् निर्माणे कस्यचित् प्रकारस्य विलम्बः न जायते। भवनानां संरचनात्मक-कार्यं शीघ्रतया संपद्यते।

— अयोध्या-सहित-निकटस्थ-जनपदाः लाभं प्राप्स्यन्ति

एतत् विद्यालयं प्रवर्तमाने अयोध्या, अम्बेडकरनगर, सुल्तानपुर, बाराबंकि, फैजाबाद-मण्डलस्य अन्ये जनपदाश्च मानसिकरूपेण विशेषबालकेभ्यः विकसित-वातावरणे अध्ययन-निवास-सेवां प्राप्तुं समर्थाः भविष्यन्ति। परिवारात् पृथक् वसन्तेभ्यः बालकेभ्यः गृह-सदृशः वात्सल्यपूर्णः वातावरणम् अत्र प्रदेयः भविष्यति, येन तेषां भावनात्मक-सुरक्षा अपि सुनिश्चितीक्रियते।

— विशेषबालक-सशक्तीकरणे महद् पादप्रवेशकर्म

एषः आधुनिकः विद्यालयः बालकेभ्यः केवलं शैक्षणिक-ज्ञानं नैव दास्यति, किन्तु व्यवहारिक-चिकित्सा वाक्-चिकित्सा जीवनकौशलप्रशिक्षणम्, व्यावसायिक-प्रशिक्षणम्, काउन्सेलिङ्-सेवा इत्यादयः अपि उपलब्धाः भविष्यन्ति। अनेन बालकानां आत्मनिर्भरता, आत्मविश्वासः, सामाजिक-जीवनाय योग्यताच च प्रबलताम् आगमिष्यति।

जिला-दिव्याङ्गजन-सशक्तीकरण-अधिकारीस्य वक्तव्य

जिला-दिव्याङ्गजन-सशक्तीकरण-अधिकारी चन्द्रेश-त्रिपाठी परियोजनायाः प्रगतौ संतोषं दर्शयन् अवदत्—यत् मुख्यमंत्री योगी आदित्यनाथः मानसिकरूपेण विशेषबालकानां हिते उच्चतमं प्राधान्यम् ददाति। एषः विद्यालयः प्रदेशस्य आदर्श-संस्थानरूपम् स्थापितः भविष्यति, यत्र शिक्षा, आवास, पोषणं, परिचर्या च एकस्मिन् परिसर एव उपलब्धं भविष्यति। वयम् एतां परियोजनां उच्च-गुणवत्ता-मानकैः समये एव पूर्णतां नयितुं प्रतिज्ञाबद्धाः। अस्य प्रवर्तनेन शतशः बालकानां नवजीवनं, नववातावरणं च लप्स्यते, तेषां भविष्यं सुरक्षितं भविष्यति।

— परियोजना-समाप्तौ अयोध्यायाः नवोन्मेषः

परियोजना-सिद्धये अयोध्या दिव्याङ्गजन-कल्याण-क्षेत्रे नव-आयामं प्राप्तुं शक्नोति। एषः विशेषबालक-केंद्रः केवलं शिक्षायाः स्थानं न भविष्यति, अपि तु तेषां सर्वाङ्ग-विकासस्य, आत्मविश्वासस्य, आत्मनिर्भरत्वस्य च दिशि महत्त्वपूर्णं पादक्षेपं भविष्यति। एतस्य संस्थानस्य सिद्धये अयोध्यायां दिव्याङ्गबालकानां संरक्षणे, शिक्षायां, पुनर्वासे च मॉडल्-केन्द्रम् विकासं लभते, यः अन्यजनपदानाम् अपि प्रेरणास्रोतं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता