Enter your Email Address to subscribe to our newsletters



भीलवाड़ा, ३ दिसम्बरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः मोहनभागवतः बुधवासरे एकाहिकप्रवसनेन भीलवाड़ानगरम् आगच्छत्। तस्य आगमनस्य कारणेन नगरे सर्वत्र कठोरसुरक्षाव्यवस्थापनम् अकुर्वन्। रेलस्थानकात् आरभ्य कार्यक्रमस्थलपर्यन्तं विवाहमण्डपपर्यन्तं च आरक्षक: सुरक्षाविभागैः विशेषा दृष्टिः कृता। सरसंघचालकः भागवतः हरणीमहादेवमार्गे स्थिते स्वकीयनिजविश्रामगृहे उद्योगिनः सत्यप्रकाश-डिडवानियस्य पुत्रस्य प्रत्युष-डिडवानियस्य विवाहसमारोहे सहभागं कृतवान्, नवदम्पत्योः आशीर्वादं दत्तवान् च। तस्मिन् काले भीलवाड़ा-संघपरिवारस्य प्रमुखाः पदाधिकारीणः तं साभिनन्दनं स्वागतम् अकुर्वन्।
सायंकाले मोहनभागवतः भीलवाड़ानगरस्थैः प्रायः पञ्चशताधिकैः कुटुम्बैः सह विशेषसमावेशे भागं कृतवान्। अस्याम् सभायां पारिवारिकमूल्यानां ह्रासः, संयुक्तकुटुम्बव्यवस्था, संस्काररक्षा, सामाजिक-एकता इत्येतेषु विषयेषु विस्तीर्णा चर्चा अभवत्। सरसंघचालकः अवदत् “कुटुम्बमेव व्यक्तेः प्रथमा पाठशाला। यदि कुटुम्बं दृढं भविष्यति तर्हि समाजः स्वयमेव सशक्तो भविष्यति।” उपस्थितान् कुटुम्बान् प्रति सः परस्परसंवादं, संवेदनशीलतां, संस्काराधारितजीवनपद्धतिं च अवलम्बनीयाम् इति संदेशं दत्तवान्। एतस्मिन्नवसरे संघस्य राजस्थानक्षेत्रप्रचारकः निंबाराम्, चित्तौड़प्रान्तस्य पदाधिकारीणः, बहवः स्वयंसेवकाः च उपस्थिताः। सुरक्षाव्यवस्थापनस्य दृष्ट्या सर्वनगरे आरक्षकबलम् उपस्थापितम् आसीत्।
प्रवासनिर्वाहकाले महामण्डलेश्वरः स्वामी हंसराम् उदासीनः, संत् गोविंदरामः च सरसंघचालकं प्रति आगत्य आगामी सनातनमङ्गलमहोत्सवस्य औपचारिकं निमन्त्रणं दत्तवन्तौ। अयं महोत्सवः १९ फरवरीदिनाङ्कात् आरभ्य २६ फरवरी-लदिनाङ्कपर्यन्तं हरीसेवा-उदासीनसनातनमन्दिरलपरिसरे आयोजितः भविष्यति। स्वामी हंसराम् उदासीनः अवदत् “अयं महोत्सवः धर्माध्यात्मसनातनसंस्कृतेः भव्यः संगमः भविष्यति।”
सनातनसेवासमितेः रवीन्द्रकुमारजाजू अवदत् अस्य महोत्सवस्य अवसरे त्रयः ब्रह्मचारीसन्तः दीक्षां गृह्णन्ति, ये स्वं सम्पूर्णजीवनं सनातनधर्मस्य सेवायै, साधनायै, तपस्यै च समर्पयिष्यन्ति। एतत् ऋषिपरम्परायाः महत्वपूर्णं विस्तारम्, समाजस्य च दुर्लभं पुण्यकरं च अवसरं भवतीति सः उक्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता