आराधना महोत्सवे विद्वत सम्मानं एवं चोटी प्रतियोगिता गुरूवासरे : शंकराचार्य वासुदेवानंदः
प्रयागराजः, 03 दिसम्बरमासः (हि.स.)। जगद्गुरुः शङ्कराचार्यः वासुदेवानन्दसरस्वती नामधेयः अलोपीबागस्थिते शङ्कराचार्याश्रमे आयोजिते आराधना–महोत्सवे स्वस्य आशीर्वचने अवोचत् यत् जगद्गुरुः भगवान्शङ्कराचार्यः वैदिक–सनातन–मान्यताः विनाशयितुं प्रवृत्तानां प्
शंकराचार्य वासुदेवानंद


प्रयागराजः, 03 दिसम्बरमासः (हि.स.)। जगद्गुरुः शङ्कराचार्यः वासुदेवानन्दसरस्वती नामधेयः अलोपीबागस्थिते शङ्कराचार्याश्रमे आयोजिते आराधना–महोत्सवे स्वस्य आशीर्वचने अवोचत् यत् जगद्गुरुः भगवान्शङ्कराचार्यः वैदिक–सनातन–मान्यताः विनाशयितुं प्रवृत्तानां प्रति शास्त्र–शस्त्राभ्यां संघर्षं कृत्वा देशस्य चतुर्षु दिशासु पीठानि प्रतिष्ठापितवान् — पश्चिमदिशि द्वारकापुर्यां शारदापीठम्, दक्षिणे श्रुङ्गेर्यमठम्, पूर्वे जगन्नाथपुर्यां गोवर्धनमठम्, उत्तरदिशि ज्योतिर्मठम् इति।

आदौ एव ज्योतिर्मठे त्रोटकाचार्यम्, शारदामठे हस्तमलकाचार्यम्, श्रुङ्गेर्यां सुरेश्वराचार्यम्, गोवर्धनमठे पद्मपादाचार्यम् इति शिष्यत्वेन स्वीकृत्य तान् स्वस्वपीठेषु आसनस्थापनं कृतम्। अद्यापि एते सर्वे मठाः स्वस्व–शङ्कराचार्य–नाम्ना सनातन–वैदिक–धर्मस्य प्रचारप्रसारं विश्वे कुर्वन्ति।

शङ्कराचार्येण अवोचत त् ज्योतिर्मठस्य परम्परा १८३३ तमवर्षे विरमिता, १६५ वर्षेभ्यः अनन्तरं पुनः तपस्वी–विद्वान् सन्तः स्वामीब्रह्मानन्दसरस्वती–महाराजः श्रीमज्ज्योतिष्पीठाधीश्वररूपेण नामपदम् अधिगृह्य जगद्गुरु–शङ्कराचार्यस्य रूपेण वैदिक–धर्म–प्रसारं पुनरारब्धवान्। तेन नामितौ स्वामीशान्तानन्दः स्वामीविष्णुदेवानन्दश्च पीठासीनौ अभवताम्। स्वामी–विष्णुदेवानन्देन वासुदेवानन्द–सरस्वती–महाराजः ज्योतिष्पीठाधीश्वर–जगद्गुरु–शङ्कराचार्य–रूपेण नामितः।

प्रवक्ता ओंकारनाथत्रिपाठिना निवेदितम् यत् श्रीमद्भागवत–कथायां श्रवणानन्द–महाराजेन गीत–संगीत–युक्तया भजन–लहर्या भक्तान् भागवत–रस–मग्नान् कृतम्। सः अवोचत् यत् बृहस्पतिवासरे आराधना–महोत्सवस्य अन्तिमे दिने प्रातः ११ वादने जगद्गुरु–ब्रह्मलीन–स्वामी–शान्तानन्द–महाराजस्य जयन्ती–समारोहः, द्वादशवादने आरभ्य श्रीमद्भागवत–महापुराण–कथा, सायं ४ वादने विद्वत्–सम्मानः, पञ्चवादने च चोटी–प्रतियोगिता भविष्यति।

प्रवक्त्रा अपि उक्तं यत् महोत्सवस्य अन्ते गणेश–हनुमत्–राधामोहन–आदि–देवताभ्यः, भगवान्–शङ्कराचार्ये, शङ्कराचार्य–ब्रह्मानन्द–सरस्वत्यै, शान्तानन्द–सरस्वत्यै, शङ्कराचार्य–विष्णुदेवानन्द–महाराजाय च पूजा–आरत्या कृता। पश्चात् प्रसाद–वितरणं जातम्। कार्यक्रमे प्रधानतया दण्डिसंन्यासी–विनोदानन्द–महाराजः, दण्डिसंन्यासी–विश्वदेवानन्द–महाराजः, पण्डितः शिवार्चन–उपाध्यायः (पूर्व–प्रधानाचार्यः, ज्योतिष्पीठ–संस्कृत–महाविद्यालयः), बंगाली–बाबा, जितेन्द्र–ब्रह्मचारी, आचार्यः ओंकार–दुबे इत्यादयः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार