Enter your Email Address to subscribe to our newsletters

शिमला, 31 दिसंबरमासः (हि.स.)।
मुख्यमंत्री ठाकुर-सुखविन्द्रसिंह-सुक्खुरद्य नूतनवर्षस्य पूर्वसन्ध्यायां शिमलानगरस्य मॉल्-रोड रिज इत्येतयोः स्थलयोः भ्रमणं कृतवन्तः तथा ‘क्वीन् ऑफ् हिल्स्’ इति प्रसिद्धे शिमलायां समागतेभ्यः पर्यटकैः सह संवादम् अकुर्वन्।
मुख्यमन्त्रिणा रिज्-प्रदेशे स्थापितानां हिमाचलप्रदेशस्य पारम्परिक-व्यञ्जन-हस्तशिल्प-प्रदर्शक-स्टॉलानाम् अपि अवलोकनं कृतम्। तस्मिन् काले मुख्यमन्त्रिणा बालकैः जनैश्च सह छायाचित्रग्रहणं कृतम्, जनैश्च अपि उत्साहेन तैः सह स्वयंचित्रं (सेल्फी) गृहीतम्।
अस्मिन्नवसरे उद्योगमन्त्री हर्षवर्धन-चौहानः, तन्त्रज्ञान-शिक्षामन्त्री राजेश-धर्माणी, मुख्यमन्त्रिणः प्रधान-मीडिया-उपदेशकः नरेश-चौहानः, महापौरः सुरेन्द्र-चौहानः, उपमहापौरः उमा-कौशलः अन्ये च वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार