पूर्व मुख्यमंत्रिणे स्व.कृष्ण बल्लभ सहायाय मुख्यमंत्री नी​तीशोऽददात् श्रद्धांजलिम्
पटना, 31 दिसम्बरमासः (हि.स.)।बिहारराज्यस्य मुख्यमन्त्री नीतिशकुमारः स्वर्गीयकृष्णवल्लभसहायस्य जयंतीसमये नूतनसचिवालये पट्नानगरस्थप्रतिमास्थले आयोज्यमाने राजकीयजयंतीसमारोहे बुधवासरे सहभागीभूत्वा तस्य प्रति भावपूर्णां श्रद्धांजलिं अर्पितवान्। स्वर्गीय
स्व कृष्ण बल्लभ सहाय जी की प्रतिमा पर माल्यार्पणकरते मुख्यमंत्री नीतीश


पटना, 31 दिसम्बरमासः (हि.स.)।बिहारराज्यस्य मुख्यमन्त्री नीतिशकुमारः स्वर्गीयकृष्णवल्लभसहायस्य जयंतीसमये नूतनसचिवालये पट्नानगरस्थप्रतिमास्थले आयोज्यमाने राजकीयजयंतीसमारोहे बुधवासरे सहभागीभूत्वा तस्य प्रति भावपूर्णां श्रद्धांजलिं अर्पितवान्। स्वर्गीयकृष्णवल्लभसहायस्य जन्मदिने राजकीयजयंतीसमारोहः नूतनसचिवालयस्य दक्षिणदिकि पेसु कार्यालयसमिपस्थिते त्रिमुखसंयोगे विद्यमाने प्रतिमास्थले आयोजितः।

तस्मिन् अवसरि उपमुख्यमन्त्री सम्राटचौधरी, जलसंसाधन च संसदीयकार्यमन्त्री विजायकुमारचौधरी, विधायकः श्यामरजक, विधानपरिषदस्य सदस्या कुमुदवर्मा, बिहारराज्यधार्मिकन्यासपरिषदस्य अध्यक्षः रणवीरनन्दन, स्वर्गीयकृष्णवल्लभसहायस्य बान्धवाः, बिहारराज्यनागरिकपरिषदः महासचिवः अरविन्दकुमार इत्यादयः अन्ये विशिष्टजनाः सामाजिकराजनैतिककार्यकर्तारश्च सर्वे अपि उपस्थित्य प्रतिमायाः समीपे माल्यार्पणं कृत्वा तं श्रद्धया स्मृतवन्तः।

अस्मिन्नवसरे सूचना जनसम्पर्कविभागस्य कलाकारैः आरती पूजनं बिहारगीत च देशभक्तिगीतानां गायनं चापि निष्पादितम्।

हिन्दुस्थान समाचार