मध्यप्रदेशः : आंगनवाड़ी कार्यकर्तृणां सहायिकानां च 4,767 रिक्त पदेभ्यः आवेदनम् आमंत्रितम्
- एमपीऑनलाइनचयनपटलेद्यारभ्य आवेदनं शुभारब्धम् भोपालम्, 31 दिसम्बरमासः (हि.स.) । मध्यप्रदेशस्य महिला बालविकासविभागेन प्रदेशस्य विभिन्नजिल्लासु बालविकासपरियोजनासु आङ्गनवाडीकार्यकर्त्रीणां आङ्गनवाडीसहायिकानां च पूर्णतया अस्थायीमानदेयाधारितमानसेवीरूप
प्रतीकात्‍मक फोटो


- एमपीऑनलाइनचयनपटलेद्यारभ्य आवेदनं शुभारब्धम्

भोपालम्, 31 दिसम्बरमासः (हि.स.) ।

मध्यप्रदेशस्य महिला बालविकासविभागेन प्रदेशस्य विभिन्नजिल्लासु बालविकासपरियोजनासु आङ्गनवाडीकार्यकर्त्रीणां आङ्गनवाडीसहायिकानां च पूर्णतया अस्थायीमानदेयाधारितमानसेवीरूपेण रिक्तस्थानानां पूर्त्यर्थं पात्राभ्यः महिलाभ्यः आवेदनानि आमन्त्रितानि। एषा भर्तीप्रक्रिया २०२५ तमे वर्षे (द्वितीयचरणे) करणीयाऽस्ति। इच्छुकाः पात्राश्च आवेदिकाः एम्पी ऑनलाइन इति संस्थया विकसिते चयनपोर्टल नाम्नि माध्यमेन ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति।

जनसम्पर्काधिकारी बिन्दुसुनीलनाम्ना बुधवासरे सूचितं यत् प्रदेशस्य विभिन्नजिलेषु समग्रतया १५७३ आङ्गनवाडीकार्यकर्त्रीपदानि ३१९४ आङ्गनवाडीसहायिकापदानि च — एवं ४७६७ रिक्तस्थानानि पूरयिष्यन्ते। एतेषु दिसम्बर २०२५ पर्यन्तं विद्यमानि रिक्तस्थानानि तथा जनवरी २०२६ ततः जून २०२६ पर्यन्तं संभावितरिक्तस्थानानि अपि सम्मिलितानि।

आवेदनप्रक्रिया अद्य ३१ दिसम्बर २०२५ तः आरभ्य १० जनवरी २०२६ पर्यन्तं प्रवर्तिष्यते। आवेदनपत्रे दोषपरिष्करणस्य अन्तिमतिथिः १२ जनवरी २०२६ इति निश्चितम्। आवेदनानि केवलं ऑनलाइनमाध्यमेनैव स्वीकरिष्यन्ते, ऑफलाइनरूपेण प्राप्तेषु आवेदनपत्रेषु किञ्चिदपि विचारो न करिष्यते।

निदेशानुसारम् आवेदिकायाः तस्यैव ग्रामे अथवा नगरीयवार्डे निवासित्वं अनिवार्यम्, यस्मिन्नेव स्थाने रिक्तस्थानस्य पूर्तिर्भवितव्या। आङ्गनवाडीकार्यकर्त्रीसहायिकापदयोः कृते न्यूनतमी शैक्षणिकी योग्यता उच्चमाध्यमिकसमानतया द्वादशकक्ष्यायाः उत्तीर्णता निश्चिताऽस्ति। तथा च ०१ जनवरी २०२५ इत्यस्य स्थितौ आयुः १८ वर्षात् ३५ वर्षपर्यन्तं भवितुम् आवश्यकम्।

आवेदनसमये सर्वे आवश्यकाः प्रमाणपत्राः पीडीएफरूपेण अपलोडनीयाः। आवेदनशुल्कं १०० रूप्यकाणि तथा अष्टादशप्रतिशतं वस्तुसेवाकरः निश्चितः। आवेदिकाः स्वयम् एम्पी ऑनलाइनपोर्टले गत्वा अथवा अधिकृतकियोस्कमाध्यमेन आवेदनं कर्तुं शक्नुवन्ति।

रिक्तस्थानानां परियोजनाआङ्गनवाडीकेंद्रवारविवरणं भर्तीसम्बद्धाः नियमाः शर्तयः पात्रताच अन्यावश्यकसूचनाः चयनपटले तथा विभागीयवेबसाइटे उपलब्धाः। एम्पी ऑनलाइनसम्बद्धयाः कस्याः अपि तांत्रिकसमस्यायाः समाधानार्थं सहायिकासङ्ख्या ०७५५–६७२०२०८ इति प्रकाशिता।

हिन्दुस्थान समाचार