48 वर्षीयं कुशासनं बंगालम् अनाशयत् : शुभेंदु अधिकारी
कोलकाता, 31 दिसंबरमासः (हि.स.)। पश्चिमबङ्गाले राजनैतिकसंघर्षः तीव्रो जातः। भारतीयजनतापक्षस्य वरिष्ठनेता तथा विधानसभायां विपक्षनेता शुभेन्दुअधिकारी इत्यनेन बुधवासरे सोशलमीडिया मंचे एक्स नाम्नि (पूर्वं ट्विटर) एकं संदेशं प्रकाशित्य राज्यस्य वाममोर्च
शुभेंदु अधिकारी: फाइल फोटो


कोलकाता, 31 दिसंबरमासः (हि.स.)।

पश्चिमबङ्गाले राजनैतिकसंघर्षः तीव्रो जातः। भारतीयजनतापक्षस्य वरिष्ठनेता तथा विधानसभायां विपक्षनेता शुभेन्दुअधिकारी इत्यनेन बुधवासरे सोशलमीडिया मंचे एक्स नाम्नि (पूर्वं ट्विटर) एकं संदेशं प्रकाशित्य राज्यस्य वाममोर्चसर्वकारं तृणमूलकांग्रेससर्वकारं च प्रति तीक्ष्णं प्रहारं कृतः।

शुभेन्दुअधिकारी स्वसन्देशे अवदत् यत् गतचत्वारिंशदधिकद्वयोत्तरवर्षाणां लूटकुशासनाभ्यां पश्चिमबङ्गालस्य यूनां भविष्यं विनष्टम्। सः अभ्यधात् यत् वर्षे उन्नविंशतिशतकाशष्टितमे प्रति व्यक्तिं आयविषये पश्चिमबङ्गालः राष्ट्रे तृतीयस्थाने आसीत् अद्य तु पतित्वा चतुर्विंशतितमे स्थाने संस्थितः। तस्य मतम् यत् राज्यस्य प्रति व्यक्तिं आय राष्ट्रियमितितः षोडशशतः न्यूनां जाता।

भाजपायाः नेता आरोपं कृतवान् यत् राज्यतः उद्योगाः पलायिताः अभवन् कारखानानि निरुद्धानि जाता जीविकासन्दर्भाः उपशान्ताः अभवन् युवानां स्वप्नानि च खण्डखण्डानि कृता। वाममोर्चस्य तथा तृणमूलकांग्रेसस्य ममता बनर्जी सर्वकारं च अस्याः स्थितेः कारणं इति निर्दिष्टवान्।

स्वसन्देशे सः अवदत् यत् अधुना पर्याप्तं जातम् इदानीं कालः एव वास्तविकपरिवर्तनस्य। अभ्यधात् यत् भाजपादलं पश्चिमबङ्गालं पुनः अपि औद्योगिकविकासस्य जीविकानिर्माणस्य समृद्धेः च मार्गे स्थापयिष्यति।

सः एतदपि उक्तवान् यत् भाजपादलः राज्यस्य प्राचीना गौरवशालिनी परिचयं पुनर्जीवयितुं प्रतिबद्धः अस्ति तथा आगामिकाले बंगं राज्यं विकासस्य नवमादर्शं प्रदास्यति।

---------------

हिन्दुस्थान समाचार