Enter your Email Address to subscribe to our newsletters

-शिविरे जलपानं, अन्न क्षेत्रं च पौष पूर्णिमातः शुभारप्यते।
प्रयागराजः, 31 दिसम्बरमासः (हि.स.)। अखिलभारतीयदण्डिसंन्यासीपरिषदो राष्ट्रियाध्यक्षः पीठाधीश्वरः स्वामिनो ब्रह्माश्रममहाराजस्य चतुः सप्तत्युत्तरं जन्मदिवसम् गुरुवासरे माघमेलन्यः ओल्ड्जीटीरोड् इत्यत्र स्थिते चरखीदादरीआश्रममध्ये द्वादशवादने (मध्याह्ने) आरभ्य उत्सवतः आचरिष्यते।शिविरस्य आचार्यः कपिलनामकः उक्तवान् यत् तस्मिन् अवसरि सर्वे प्रमुखसन्तः महात्मानः मेलनिर्वाहकाः पुलिसाधिकारिणः कर्मचारिणश्च सहितं बहुसंख्येयाः शिष्या उपस्थिताः भविष्यन्ति। आचार्येण कथितम् यत् पौषपूर्णिमातः आरभ्य शिविरे प्रातः पञ्चवादनात् जलपानं चायं च भविष्यति, मध्याह्नात् अन्नक्षेत्रस्य व्यवस्था सायं सन्ध्यपर्यन्तं प्रवर्तिष्यते।वृन्दावनस्य आचार्यः सदानन्दनामकस्य भागवतकथा सप्तजनवरीतिथौ प्रातः दशवादनात् आरभ्य भविष्यति। अखिलभारतीयदण्डिसंन्यासीपरिषदस्य राष्ट्रियाध्यक्षः पीठाधीश्वरः स्वामीब्रह्माश्रममहाराजस्य श्रीमद्भागवतकथा पञ्चदशजनवरीतिथेः आरभ्य मध्याह्ने एकवादनात् सायं चतुर्वादनपर्यन्तं भविष्यति। एकविंशतिद्वितीयजनवरीतिथेः कानपुरस्थ आचार्यः सोमदत्तस्य श्रीमद्भागवतकथा अपि मध्याह्ने एकवादनात् आरभ्य प्रवर्तिष्यते।
---------------
हिन्दुस्थान समाचार